पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा०३सू०३२-३५] तरस्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित्स्पन्दयितुं शक्यत इत्यर्थः ॥ ३१ ॥ सिद्धयन्तरमाह- मूर्धज्योतिषि सिद्धदर्शनम् ।। ३२ ॥ शिरःकपाले ब्रह्मरन्ध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः । यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसतस्तत्र संपिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानां तस्य दर्शनं भवति । तान्पश्यति तैश्च स संभाषत इत्यर्थः ।। ३२ ॥ सर्वज्ञत्व उपायमाह- प्रातिभाद्वा सर्वम् ॥ ३३ ॥ - निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभा । तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति । यथोदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्याते: पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते । तस्मिन्सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः ॥ ३३ ॥ सिद्धयन्तरमाह--- हृदये चित्तसंवित् ॥ ३४ ॥ हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वरूपपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्वस्य स्थानं तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तग- तांश्च रागादीञ्जानातीत्यर्थः ॥ ३४ ॥ सिद्धयन्तरमाह- सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषा- द्भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥३५॥ सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः । पुरुषो भोक्ताऽधिष्ठातृरूपः । तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वाच्चेतनाचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तताप्रत्ययेन या सुखदुःखसंवित्स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बन: १ ख. ग. काये । २ ख. अिकाविवरप्रदेशैः संवद्वते । ग. शिक्षाविवरपदेशे संघटते । ३ ग. भाव्यत । ४ ख. ग. पायान्तरमा ।