पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[विभू०पा०३१०२७-३१] पातञ्जलयोगसूत्राणि । भुवनानि तत्तत्संनिवेशभाञ्जि पुराणि तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन्सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्त इह तु भौतिक इति विशेषः ॥ २६ ॥ भौतिकप्रकाशालम्बनद्वारेणैव सिद्धयन्तरमाह- ... चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥ ताराणां ज्योतिषां यो व्यूहो विशिष्टः संनिवेशस्तस्य चन्द्रे कृतसंयमस्य , ज्ञानमुत्पद्यते । सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगुपायोऽभिहितः ॥ २७॥ सिद्धयन्तरमाह- ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते । इयं ताराऽयं ग्रह इयता कालेनामुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानमस्य फलमित्युक्तं भवति ॥ २८ ॥ बाह्याः सिद्धीः प्रतिपाद्याऽऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते- ___ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ शरीरमध्यवर्ति नाभिसंज्ञकं यत्षोडशारं चक्रं तस्मिन्कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति- नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतमतस्तत्र कृतावधानस्य समग्रसंनिवेशो यथावदाभाति ॥ २९ ॥ । सिद्धयन्तरमाह- कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ कण्ठे गले कृपः कण्ठकूपः, जिह्वामूले जिह्वातन्तोरधस्तात्कूप इव कूपो गर्ताकारः प्रदेशः पाणादेर्यत्संस्पर्शात्क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन्कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते । घण्टिकाधस्तास्रोतसा धार्यमाणे तस्मिन्भाविते भवत्येवंविधा सिद्धिः ॥३०॥ सिद्धयन्तरमाह- कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥ कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । १ ख. ग. तत् । २ क. स्थानानि । ३ ख. ग. स्तस्मिंश्चन्दे । ४ ग. 'थगयमुपा । ५ ग. नातीति सूत्रार्थः । इ'।६ क. ख. °नस्य । ७ क. ख. "लमुक्तं । ८ ख. हातोऽय | ९ख. म. "स्ताइट्टढा का