पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ . भोजदेवविरचितवृत्तिसमेतानि-- [विभू०पा०३सू०२३-२६] स्मिञ्ज्ञानममुष्मिन्कालेऽमुष्मिन्देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि आध्यात्मिकाधिभौतिकाधिदैविकभेदेन । तत्राऽऽ- ध्यात्मिकानि पिहितकर्णः कोष्टयस्य वायोर्धोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि । आधिदैविकानि अकाण्ड एव द्रष्टुमशक्यस्वर्गादिपदार्थ- दर्शनादानि । तेभ्यः शरीरवियोगकालं जानाति । यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते, तथाऽपि तेषां सामान्याकारेण तत्संशयरूपं, योगिनां पुनर्नियतदेशकालतया प्रत्यक्षवदव्यभिचारि ॥ २२॥ परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह- मैत्र्यादिषु बलानि ॥ २३ ॥ मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तस्य बलानि मैत्र्यादीनां संबन्धीनि प्रादुर्भवन्ति । मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकमर्य प्रतिपद्यते ॥ २३ ॥ सिद्धयन्तरमाह- बलेषु हस्तिबलादीनि ॥ २४ ॥ हस्त्यादिसंबन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलानि आविर्भवन्ति । तदयमर्थः--यस्मिन्हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावनायं संयमं करोति तत्त-- सामर्थ्ययुक्तं सत्वमस्य प्रादुर्भवतीत्यर्थः ॥ २४ ॥ सिद्धयन्तरमाह- प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यव- हितविप्रकृष्टज्ञानम् ॥ २५ ॥ प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता तस्या योऽसावालोकः सात्त्विकप्रकाशप्रसरस्तस्य निखिलेषु विषयेषु न्यासात्तद्वासितानां विषयाणां भावनात्सान्तःकरणेषु इन्द्रियेषु प्रकृष्टशक्तिमापन्नेषु सूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरपार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते ॥ २५ ॥ एतत्समानवृत्तान्तं सिद्धयन्तरमाह- । भुवनज्ञानं सूर्यसंयमात् ॥ २६ ॥ सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि १ ख. निष्पन्दभूतां सिद्धिं प्र । ग. निस्पन्दभूताः । र ख. स्यापि मि° । ३ ख. °दिकं संप° । ग. दिकं संप 1 ४ ख. ग. 'वेन सं° । ५ ख. तत्सर्वं सामर्थ्ययुक्तत्वात्सत्वस्य । ग. तत्सर्वं सामर्थ्ययुक्तत्वात्सर्वमस्य । ६ ख. सूर्यप्रकाशसमये ।