पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[विभू०पा०३सू०२०-२२] पातञ्जलयोगसूत्राणि । ३७ तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं विरागं वेति । परचित्तगतानपि धर्माजानातीत्यर्थः ।। १९ ॥ अस्यैव परचित्तज्ञानस्य विशेषमाह- . न तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥ तस्य परस्य यश्चित्तं तत्सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात् । लिङ्गोच्चित्तमात्रं परस्यावगतं नतु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचितस्य यो विषयस्तत्र ज्ञानम् । तस्मात्परकीयचित्तं नाऽऽलम्बनसहितं . गृह्यते, तस्याऽऽलम्बनस्यागृहीतत्वात् । चित्तधर्माः पुनर्गुह्यन्त एव । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत एव ॥ २० ॥ सिद्धयन्तरमाह- कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षु- ष्प्रकाशासंयोगेऽन्तर्धानम् ॥ २१ ॥ कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन्काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्यासंयोगे तद्ग्रहणव्यापाराभावे योगिनोऽन्तर्धानं भवति, न केनचिदसौ दृश्यत इत्यर्थः । एतेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम् ॥ २१ ॥ सिद्धयन्तरमाह- सोपक्रमं निरुपक्रमं च कर्म तत्संयमा- दपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ आयुर्विपाकं यत्पूर्वकृतं कर्म तद्विप्रकारं सोपक्रमं निरुपक्रमं च । तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकरणाभिमुख्येन सह वर्तते । यथोष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति । उक्तरूपविपरीतं निरुपक्रमं यथा तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति । तस्मिन्द्विविधे कर्मणि यः संयमं करोति किं कर्म • शीघ्रविपाकं चिरविपाकं वा, एवं ध्यानदाढर्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगस्त- १ क. °षज्ञानमा । २ ख. ङ्गाद्धि चित्त । ३ क. ग. र्थः ॥ २१ ॥ एतेन शब्दा- पन्तर्धानमुक्तम् ॥ २२ ॥ ए° । ४ ख. ग. र्यकार । ५ क. किं मम क।