एतत् पृष्ठम् परिष्कृतम् अस्ति
[विभूपा०३सू०३६-३८] पातञ्जलयोगसूत्राणि । ४१
परित्यक्ताहकारसत्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुपयते । तत्र तदेवंरूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषपभावमापद्यते । ज्ञेयत्वापतेातृज्ञेययोश्चात्यन्तविरोधात् ॥ ३५ ॥ . अस्यैव संयमस्य फलमाह--- ततः मातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥ ततः पुरुषसंयमादभ्यस्यमानाव्यस्थितस्यापि ज्ञानानि जायन्ते । तत्र प्रातिभं पूर्वोक्त ज्ञानं तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं तस्माञ्च प्रष्टा. दिव्यं दिवि भवं शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेतिं कृत्वा तान्त्रिक्या संज्ञया व्यवहियते । तस्मादिव्यस्पर्शविषयं ज्ञानं समुपजायते । आदर्शश्चक्षुरिन्द्रियजं ज्ञानम् । आ समन्तादृश्यतेऽनुभूयते रूमनेनेति कृत्वा, तस्य प्रकर्षादिव्यं रूपज्ञानमुत्प. द्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । भास्वाधतेऽनेनेति कृत्वा, तस्मिन्प्रकृष्टे दिव्ये रसे संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते । वर्तते गन्धविषय इति कृत्वा, वत्तेणेन्द्रियागजाता वार्ता गन्धसंवित् । तस्यां प्रकृष्य- माणायां दिव्यगन्धोऽनुभूयते ॥ ३६ ॥ एतेषां फलविशेषाणां विषयविभागमाह- . ते समाधावुपसर्गा न्युत्थाने सिद्धयः ।। ३७ ।। ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्ष गच्छत उपसर्गा उपदवा विघ्नकारिणः। तत्र हर्षविस्मयादिकरणेन समाधिः शिथिली भवति । व्युथाने तु पुनर्भवहारदशायाँ विशिष्टफलदायकत्वासिद्धयो भवन्ति ।। ३७ ॥ सिद्धयन्तरमाह- बन्धकारणशैथिल्यात्यचारसंवेदनाच चित्तस्य परशरीरावेशः ॥ ३८ ॥ व्यापकत्वादात्मचितयोनियतकर्मवशादेव शरीरान्तर्गतयो क्तभोग्यभावेन यत्संवेदनमु. पजायते स एव शरीरे बन्ध इत्युच्यते । तद्यदा समाधिवशाद्वन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते । चितस्य च योऽसौ प्रचारो हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहा नाडी, अनया चित्तं वहति,
१ म. तदे। २ क. निष्ठं पु' । ३ क. 'नातीत्यर्थः । न ४ क. ख. कृष्टं दिव्यं । ५ ख. दिव्यरससं । ६ ख. ग. विहिः ।व । ७ क. ति 1 ८ स. ग. वित्तिः । त। क. विशेषधि।