पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १८]
२१
पातञ्जलयोगसूत्राणि ।

वितर्कश्चित्तस्याऽऽलन्बने स्थूल आभोगः । सूक्ष्मो विचारः ।
आनन्दो ह्लादः । एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टया-
नुगतः समाधिः सवितर्कः। द्वितीयो वितर्कविकलः सविचारः।
तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र
इति । सर्व एते सालम्बनाः समाधयः ॥ १७ ॥
अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति--
विरामप्रत्ययान्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसं-

प्रज्ञातः । तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्सा-


ज्ञातोपवर्णनम् । संप्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमाप्रति. पत्तव्यम् । वितक विवृणाति--चित्तस्येति । स्वरूपसाक्षात्कारवती प्रज्ञाऽऽभोगः । स च स्थलविषयत्वास्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्म- मेवं प्राथमिको योगी स्थूलभेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति । एवं चित्तस्याऽऽलम्बने सूक्ष्म आभोगः स्थलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः । तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति-आनन्द इति । इन्द्रिये स्थूल आलम्बने चित्तस्याऽऽभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानाद. हंकार दिन्द्रियाण्युत्पन्नानि । सत्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभौगो ह्लाद इति । ग्रहीतविषयं संप्रज्ञातमाह--एकात्मिका संविदिति । अस्मिताप्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्म रूपम् । सा चाऽऽमना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्यां च ग्रहीतुरन्त वाद्भवति ग्रहीतविषयः संप्रज्ञात इति । चतुर्णामपरमप्यवान्तरविशेषमाह- तत्र प्रथम इति । कार्य कारणानुप्रविष्टं न कारणं कार्येण तदयं स्थूल आभोगः स्थूलसू. मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति । उत्तरे तु विद्वधेककारणकास्त्रिद्वयेकरूपा भवन्ति । असंप्रजाताद्भिनत्ति--सर्व एत इति ॥ १७ ॥

क्रमप्राप्तमसंप्रज्ञातमवतारयितुं पृच्छति-अथेति । विरामप्रत्ययाभ्यासपूर्वः संस्का- रशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति- सर्ववृत्तीति । प्रथमं पदं ध्याचष्टे - तस्य परमिति । विरामो वृत्तीनामभावस्तस्य प्रत्ययः कारणं तस्याभ्यासस्तदनुष्ठानं पौनःपुन्यं तदेव पूर्व यस्य स तथोक्तः । अथापरं

वैराग्यं निरोधकारणं करमान्न भवतीत्यत आह-सालम्बनो हीति । कार्यसरूपं कारणं


१ ख. अ. विदिति त ।फलकम्:Center=१ ख. अ. विदिति त ।