पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-[ १ समाधिपादे- धनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनी क्रियते । स चार्थशून्यः । तदभ्यासपूर्वकं हि चित्तं निरालम्बन- मभावप्राप्तमिव भवतीत्येष निर्षीजः समाधिरसंप्रज्ञातः ॥ १८ ॥

  स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपाय-

प्रत्ययो योगिनां भवति-

  भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
    विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपैयो-

गेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथा-

युज्यते न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिर्युत्ता । धर्ममेघसमाधिरेव हि नितान्तवि- गलितरजस्तमोमलाद्वद्धिसत्त्वादुपजातस्तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागच्च स्वरूपप्रतिष्ठः सन्निरालम्बन: संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणमुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणमभावप्राप्तभिव वृत्तिरूप. कार्याकरणानिर्विजो निरालम्बनः । अथवा बीजं क्लेशकर्माशयास्ते निष्क्रान्ता यस्मात्स तथा ॥१८॥

  निरोधसमाधेरवान्तरभेदं हानोपादानाङ्गमादर्शयति-- स खल्वयं निरोधसमाधिद्वि-

विधः--उपायप्रत्ययो भवप्रत्ययश्च । उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः । भवन्ति जायन्तेऽस्यां जन्तब इति भवोऽविद्या, भूते- न्द्रियेषु वा विकारेषु प्रकृतिषु वाऽव्यक्तमहदहंकारपञ्चतन्मात्रेष्वनात्मस्वात्मख्यातिस्तौष्टि- कानां वैराग्यसंपन्नाना, स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्य उपायप्रत्ययो योगिनां मोक्ष्यमाणानां भवति । विशेषविधानेन शेषस्य मुमु- क्षुसंबन्धं निषेधति । केषां तर्हि भवप्रत्यय इत्यत्र सूत्रेणोत्तरमाह--भवप्रत्ययो विदे- हप्रकृतिलयानाम् । विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद्वयाचष्टे---विदेहानां देवानां भवप्रत्ययः । भूतेन्द्रियाणामन्यतमदा(मा)त्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षट्कौशिकशरीररहिता विदेहाः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तो विदेहाः । अवृत्तिकत्वं च कैव-

१ ग. ५, इ. च, 'पू चि° । २ ख. छ. °के चि° । ३ ख, छ. पातेन ।