पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
समाधिपादे
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि
- [ १ -

विरक्त इति । तद्वयं वैराग्यम् । तत्र यदुत्तरं तन्ज्ञानप्रसादमात्रम् । यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते-प्राप्तं पापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाजनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैष परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीय कैवल्यमिति ॥ १६॥ . ___ अथोपाययेन निरुद्धचित्तवृत्तः कथमुच्यते संप्रज्ञातः समा- पिरिति- वितर्कविचारानन्दास्मितारूपा- नुगमासंप्रज्ञानः ॥ १७ ॥ तेनैव प्रकृतिलया बभूवुः । यथोक्तम्---वैराग्यात्प्रकृतिलय इति । तत्र तयोई. योर्मध्ये यदुत्तरं तज्ज्ञानप्रसादमात्रम् । मात्रग्रहणेन निर्विषपतां सूचयति । तदेव हि तादृशं चित्तसत्वं रजोलेशमलेनाप्यवर मृष्टमस्याऽऽश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमःसंपर्कामलिन्तामनुभवति । वैराग्याभ्यास- विमलयारिधाराधौतसमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपारशेषं भवति । तस्य गुणानुपादेयत्वाय दर्शयति-यस्योदये सति योगी प्रत्युदितख्यातिः । ख्यातिविशेषे मति वर्तमानख्यातिमानित्यर्थः । प्रापणीयं फेवल्यं पाप्तम् । यथा वक्ष्यति-जीवन्नेव विद्वा मुत्तो भवति । संस्कारमात्रस्य छिन्नमूलस्य सिद्धत्वादिति भावः । कुतः प्राप्तं, यतः-क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः । मन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य संक्रमः प्राणिनाम् । तत्कुतः कैव. त्यमित्यत आह-छिन्न इति । श्लिष्टानि निःसंधीनि पर्वाणि यस्य स तथोक्तः । धर्मा. धर्मसमूहस्य समहिनः पर्वाणि तानि लिष्टानि । न हि जातु जन्तुर्मरणजन्मप्रबन्धेन त्यक्ष्यते। सोऽयं भवसंक्रमः क्लेशक्षये छिन्नः । यथा वक्ष्यति-"क्लेशमूलः कर्माशयः" [२।१२] "सति मुले तद्विषाकः" [२।१३] इति । ननु प्रसंख्यानपरिपाक धर्ममेषं च निरोधमन्तर किं तदस्ति यज्ज्ञानप्रसादमात्रमित्यत आह-ज्ञानस्यवति । धमेधभेद एव पर पैराग्यं नान्यत् । यथा वक्ष्यात- "प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकल्यातेधर्ममेघः समाधिः" [४।२९] [इति, "तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्जयमल्यम्" [४।३१] इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यमिति ॥ १६॥ उपायमभिधाय सप्रकारोपेयकथनाय पृच्छति--अथोपाययेनेति । वितर्कवि- चारानन्दास्मितारूपानुगमात्संप्रज्ञातः । संप्रज्ञातपूर्वकत्वादसंप्रज्ञातस्य प्रथमं संप्र. १ ग.घ, ४. च. 'ये प्र। छ. “ये यो । २ ख. ति ३ ग. छ. 'तान । ४ क म. 'तथी ।