कृतिलयत्वमाप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिन्यविषय- संप्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगा. त्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥ १५॥
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्त- च्छुद्धिप्रविवेकाप्यायितबुद्धिर्गुणेभ्यो . व्यक्ताव्यक्तधर्मकेभ्यो
याप्राप्तावपि तदस्तीति वैराग्यं स्यादित्यत आह-दिव्यादिव्यति । न चैतृष्ण्यमात्रं वैराग्यमपि तु दिव्यादिव्यविषयसंप्रयोगेऽपि चित्तस्यानाभोगामिका । तामेव स्पष्ट- यति-हेयोपादेयशून्या.। आसङ्गद्वेषरहितोपेक्षाबुद्धिवंशीकारसंज्ञा । कुतः पुनरि- यमित्यत्राऽऽह-प्रसंख्यानबलादिति । तापत्रयपरीतता विषयाणां दोषस्तत्परिभा- वनया तत्साक्षात्कारः प्रसंख्यानं तद्बलादित्यर्थः । यतमानसंज्ञा, व्यतिरेकसंज्ञा, एक- न्द्रियसंज्ञा, वशीकारसंज्ञा चेति चतस्त्रः संज्ञा इत्यागमिनः । रागादयः खलु कषाया- श्चित्तवर्तिनस्तैरिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन्मा प्रवर्तिपतेन्द्रियाणि तत्त- द्विषयेष्विति तत्परिपाचनायाऽऽरम्भः प्रयत्नः सा यतमानसंज्ञा । तदारम्भे सति केचि- स्कषायाः पका: पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पकानां व्यतिरे. केणावधारणं व्यतिरेकसंज्ञा । इन्द्रियपवर्तनासमर्थतया पकानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसंज्ञा । औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेष्वपि दिव्यादिव्यविषये.पेक्षाबुद्धिः संज्ञानयात्परा वशीकारसंज्ञा । एतयैव च पूर्वासा चरितार्थत्वान्न ताः पृथ- गुक्ता इति सर्वमवदातम् ॥ १५ ॥ ___ अपरं वैराग्यमुक्त्वा परमाह-तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपरवैरा- ग्यस्य परं पैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति-दृष्टानुश्रविकविषय- दोपदी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शनाभ्यासादागमानु- मानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनःपुन्येन निषेवणं तस्मात्तस्य दर्शनस्य शुद्धी रजस्तमःप रहाण्या सत्त्वैकतानता तया यो गुणपुरुषयोः प्रकर्षेण विवेकः पुरुषः शुद्धोऽनन्तस्तद्विपरीता गुणा इति, तेनाऽऽप्याथिता बुद्धि- यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधिरुतः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्यातावपि गुणात्मि- कायां यावद्विरक्त इति । तत्तस्माद्वयं वैराग्यम् । पूर्व हि वैराग्यं सत्त्वसमुद्रेकविधूत-
तमसि रजःकणकलङ्कसंपृक्ते चित्तसत्वे । तच्च तौष्टिकानामपि समानम् । से हि
१ ख. त्य॑न्ते । २ क. 'तेषु च दि ।