पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे-- वीर्ययुत्साहः । तत्संपिपादयिषया तत्साधनानुष्ठानम- भ्यासः ॥१३॥ स तु दीर्घकालनैरन्तर्यसत्कारा- सेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च. संपादितः सत्कारवान्दृढभूमि- र्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्॥१५॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषेये वितृष्णस्य स्वर्गवैदेशप्र- .. व्याख्याता । यथा “ चर्मणि द्वीपिनं हन्ति " इति । प्रयत्नमेव पर्यायाभ्यां विशदयति- वीर्यमुत्साह इति । तस्येन्छायोनितामाह- तत्संपिपादयिषया । तदिति स्थिति परामृशति । प्रयत्नस्य विषयमाह-तत्साधनेति । स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारो न फलगोचर इति ॥ १३ ॥ ननु व्युत्थानसंस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कापत इत्यत आह-स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । सोऽयमभ्यासो विशेषणत्र्यसंपन्नः सन्दृढावस्थो न सहसा व्युत्थानसंस्कारैरभिभूतस्थितिरूपविषयो भवति । यदि पुनरेवंभूतमप्यभ्यासं कृत्वोपरभेत्ततः कालपरिवासेनाभिभूयेत । तस्मान्नोप- रन्तव्यमिति भावः ।। १४ ॥ वैराग्यमाह-दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । चेत- नाचेतनेषु दृष्टविषयेषु वितृष्णतामाह-स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अमुश्रको वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह-स्वर्गेति । देह. रहिता विदेहाः करणेषु लीनास्तेषां भावो वैदेह्यम् । अन्ये तु प्रकृतिमेवाऽऽत्मान मभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेत्र लोनास्तेषां भावः प्रकृति- लयत्वं तत्प्राप्तिविषये, आनुश्रविकविषये वितष्णस्याऽऽनुश्रविकविषये वितृष्णो हि स्वर्गादिप्रासिविषये वितृष्ण इयुच्यते । ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विष. १ रू. च, योऽनं पा । ९ ग. य. ऊ. 'षयवि' । क. ख. विरकस्य ।