पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १२-१३
१७
] पातञ्जलयोगसूत्राणि ।


तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमा- णविषयंयविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वार्थता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाथ क्लेशेषु व्या- ख्येयाः । सुखानुशयी रागः । दुःखानुशयी द्वेषः । मोहः पुन- रविधेति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे संप्रज्ञातो वा समाधिर्भवत्यसंप्रज्ञातो वेति ॥११॥ अथाऽऽसा निरोधे क उपाय इति---

आयासवैराग्याश्यां तन्निरोधः ॥ १२ ॥

चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्रारभारा विवेकविषयनिम्ना सा कल्याणवहा । संसारमारभाराऽविवेकविषयनिन्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिली क्रियते । विवेकदर्शना- भ्यासेन विवेकस्रोत उद्घाख्यत इत्युभयाधीनश्चित्तवृत्तिनि- रोधः ॥ १२ ॥

तत्र स्थिती यत्नोऽभ्यासः ॥ १३ ॥
                  चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो

।'स्थूलाक्षरैः युक्तः भागः

कल्पितः पारमार्थिक इति यावत् । नेयं स्मृतिरपि तु विपर्ययस्तलक्षणोपपन्नधारस्मृत्या. भासतया तु स्मृतिरुक्ता । प्रमाणाभासमिव प्रमाणमिति भावः । कस्माःपुनरन्ते स्मृते. न्यास इत्यत आह-साः स्मृतय इति । अनुभव: प्राप्तिः । प्राप्ति पूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामुपजन इत्यर्थः । ननु ये पुरुष क्लिश्नन्तिं ते निरोद्धव्याः प्रेक्षावता । क्लेशाश्च तथा । न च वृत्तपः, तत्किमर्थमासां निरोध इत्यत आह-सश्चिता इति । सुगमम् ॥ ११ ॥ निरोधोपायं पृच्छति-अथेति । सूत्रेणेत्तरमाह-अभ्यासवैराग्याभ्यां तन्निरोधःअभ्यासवैराग्ययोनिरोध जनयितव्येऽत्रान्तरल्यापारभेदेन समुच्चयो न तु विकल्प इत्याह- चित्तनदीति । प्राग्भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥ १२ ॥ तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह-तत्र स्थितौ यत्नोऽभ्यासः । तद्वय चष्टे-चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तबाहिता विमलता सास्विकवृत्तिवाहितैकाग्रता स्थितिः । तदर्थ इति । स्थिताविति निमित्तसप्तमी १. स. ३ सपश्चिता स्पृ। उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ता</ref>