पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि [ १ समाधिपाद-

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ किं प्रत्ययस्य चित्तःस्मरति आहोस्विद्विषयस्येति । ग्राह्योप-
रक्तःप्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिका स्मृतिं जनयति ।
तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्राह्याकारपूर्वा स्मृतिः । सा चं
द्वयी-भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्य-

 

अनुभूतविषयासंप्रमोषः स्मतिः । प्रमाणादिभिरनुभूते विषये योऽसंप्रमोषोऽस्तेयं

सा स्मृतिः । संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीय- स्तदधिकविषयपरिग्रहस्तु संप्रमोषः स्तेयम् । कस्मत्सादृश्यात् । ' मुप स्तेये' [धा०पा०९) इत्यस्मात्प्रमोषपदव्युत्पत्तेः । एतदुक्तं भवति-सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रका- रतो वाऽधिगमयन्ति । स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति । तद्विषया तद्न- विषया वा न तु तदधिकविषया । सोऽयं वृत्त्यन्तराद्विशेषः स्मृतेरिति । विमृशति-किं प्रत्ययस्येति ग्राह्यप्रवणत्वादनुभवस्य स्वानुभवाभावात्तज्जः संस्कारो ग्राह्यमेव स्मारयतीति प्रतिभाति । अनुभवमात्रजनितत्वाच्चानुभवमेवेति । विमश्योपपत्तित उभयस्मरणमवधारयति-ग्राह्यप्रवणतया ग्राह्योपरक्तः। परमार्थतस्तु ग्राह्यग्रहणे एवोभयं तयोरा- कारं स्वरूपं निर्भासयति प्रकाशयति : स्वव्यञ्जकं कारणमञ्जनमाकारो यस्य स तथोक्तः । स्वकारणाकार इत्यर्थः[१] । व्यञ्जकमुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः । ननु यदि कारणविचारेण बुद्धिस्मरणयोः स.रूप्यं कस्तर्हि भेद इत्यत आह-तत्र ग्रहणेति । ग्रहणमुपादानं, न च गृहीतस्योपात्तस्योपादानं [२] संभवति । तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् । ग्रहणाकारो ग्रहणरूपं पूर्वं प्रधानं यस्याः सा तथोक्ता । विकल्पितश्चायमभेदेऽपि गुणप्रधानभाव इति । ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता । इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद्वृत्त्यन्तरविषयीकृतत्वमर्थस्य । तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं भवति । सोऽयमसंप्रमोष इति । नन्वस्ति स्मृतेरपि संप्रमोषः । दर्शयति हि पित्रादेरतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसंबन्धः स्वप्न इत्यत आह-सा च द्वयीति । भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता । अभावितोs- १ ग. ध. इ. च. स्तथाजाती। २ ख. "स्तदनुभदाने।

  1. ३ ख. ज. थः । न ।
  2. ४ अ. त्योपादा।