पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १०
१५
पातञ्जलयोगसूत्राणि
    अभावप्रत्ययालम्बना वृत्तिर्निदा ॥ १० ॥

सा च संप्रबोधे:प्रत्यवमर्शात्मत्ययविशेषः । कथं, सुखमह- मस्वाप्सम् । प्रसन्नं मे मनः प्रज्ञा मे विशारदी करोति । दुःख- महमस्वाप्सं त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽह- मस्वाप्सम् । गुरूणि मे गात्राणि । क्लान्त:मे चित्तम् । अलसं मुषितमिव तिष्ठतीति । सखल्वयं प्रबुद्धस्य प्रत्येवमर्शो न स्याद- सति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युः। तस्मात्मत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरो-

द्धन्यति ॥ १०॥


 अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाण-

विपर्ययविकल्पस्मतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशे. पविधानाय । निद्रायास्तु वृत्तिवे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् । जायस्वप्नवृत्तीनाम- भावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमस्तदेवाऽऽलम्बनं विषयो यस्याः सा तथोक्ता वृत्तिनिद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्तकरणाव- रकमाविरस्ति तमस्तदा बुद्धेविषयाकारपरिणामाभावादुद्भुततमोमयी बुद्धिमवबुध्यमानः पुरुषः सुपुप्तोऽन्तःसंज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययोरिव वृत्यभाव एव न निद्रेत्यस आह—सा च संप्रबोधे प्रत्यवमर्शात्सोपपत्तिकात्स्मरणात्प्रत्ययविशेषः । कथं, यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति सुखमहमस्त्राप्त प्रसन्नं मे मनः प्रज्ञां मे विशारदी करोति स्वच्छी करोतीति । यदा तु रजःसचित्र तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्याह -दुःखमहमस्वाप्सं स्त्यान. मकर्मण्यं मे मनः कस्माद्यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःसमु. लासे स्वापे प्रबुद्रस्य प्रत्यवमर्शमाह-गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्त मे चित्तमलसं मुषितमिव तिष्ठतीति । साध्यव्यतिरेके हेतुव्यतिरेकमाह- न खल्वयामिति । प्रबुद्धस्य प्रबुद्वमात्रस्य । तदाश्रिताश्चेति बोधकाले, प्रययानुभवे वृत्त्यभावकारणानुभव इत्यर्थः । ननु प्रमाणादयो व्युत्थानचिताधिकरगा निरुध्यन्तां समाधिमतिपक्षत्वान्निद्रायास्त्रेकाग्रतितुल्यायाः कथं समाधिप्रतिपक्षतेत्या आह -सा च समाधाविति । एकाप्रतुल्पाऽपि समसत्वेन निद्रा सबी बनिर्बीजसमाधिप्रतिपक्षेति साऽपि निरोद्धव्येत्यर्थः ॥ १०॥