पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left०१४
right०[ १समाधिपादे-
center०वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

पादश्यत । . त्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा- चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते । भवति च व्यपदेशे वृत्तिः । यथा चैत्रस्य गौरिति । तथा . प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥ ९॥
शब्दज्ञानमाहाम्यनिबन्धन इति विपर्ययान्तर्गतिम् । एतदुक्तं भवति-क्वचिदभेदे भेदमारोपयति क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुनोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्ययो. व्यवहाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह-तद्यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते । किंतु भिन्नेनैव चैत्रेण । तदिदमाह-भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यपेदश्ययोर्भावो व्यपदेशः । विशेषणविशेष्यभाव इति यावत् । तस्मिन्वृत्तिर्वाक्यस्य यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाह- रणान्तरं समुच्चिनोति-तथेति । प्रतिषिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ निष्क्रियः पुरुषः । न खलु सांख्यीये राद्धान्तेऽभावों नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्यर्थः । क्वचित्पाठ: प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थ:- प्रतिषेधव्याप्ताः प्रतिषिद्धा न वस्तुधर्माणां तद्वयाप्यता भावाभावयोरसंबन्धादय च तथा प्रतीतिरिति । लौकिकमुदाहरणमाह-तिष्ठति वाण इति । यथा हि पचति भिनत्तीत्यत्र पूर्वापरीभूतः कर्मक्षणप्रचय एफफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरीभावमेवाऽऽह-स्थास्यति स्थित इति.। ननु भवतु पाकवत्पूर्वापरीभूतयाऽवस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह-गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिरेव तावत्कल्पिता तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्युदाहरणान्तरमाह-तथाऽनुत्पत्तिधर्मेति । प्रमाणविपर्ययाभ्यामन्या न विकल्पवृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥ ९॥ १ ख. छ. चिदेव । २ झ, 'देश्यपपदेशकयो ।