पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू०८-९] पातञ्जलयोगसूत्राणि । ' स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषय- त्वात्प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा-- द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽ- न्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ स न प्रमाणोपारोही । न विपर्ययोपारोही च । वस्तुशून्य- तु विचारयतां तत्र बाधबुद्धेरिति । चोदयति--स कस्मान्न प्रमाणम् । नोत्तरेणोपजा- तविरोधिना ज्ञानेन पूर्वं बाधनीयमपि तु पूर्वेणैव प्रथममुपजातेनानुपजातविरोधिना पर- मिति भावः । पारिहरति-यतः प्रमाणेनेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवमिह तु स्वकारणादन्योन्यानपेक्षे ज्ञाने जायते । तेनोत्तरस्य पूर्वमनुपमद्योदयमनासादयतस्तदप- बाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा, तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्यत्वे हेतुरुपजातविरोधिता च बाधकत्वे । तस्माद्भूतार्थविषयत्वात्प्रमाणेनाप्रमाणस्य बाधनं सिद्धम् । उदाहरणमाह-तत्र प्रमाणेनेति । ___ अस्य कुत्सितत्वं हानाय दर्शयति-सेयं पञ्चेति । अविद्यासामान्यमविद्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहंकारपञ्चतन्मात्रेष्वष्टस्वनात्मस्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्त्राणिमादिकेष्वैश्वर्येष्यश्रेयःसु श्रेयोबुद्धिरष्टविधो मोहः पूर्वस्माज्जघन्यः । स चास्मितोच्यते । यथा योगेनाष्टविधमैश्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुश्रविकाञ्शब्दादी- न्दश विषयाभोक्ष्य इत्येवमास्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैवाभिसंधिना प्रवर्त- मानस्य केनचित्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोग- स्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसंपत्तौ दृष्टानुश्रविकविषयपत्युपस्थाने च कल्पान्ते सर्वमेतन्नड्क्ष्यतीति यस्त्रासः सोऽभिनिवेशोऽ- न्धतामिस्रः। तदुक्तम्---" भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः" इति ॥ ८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ननु शब्दज्ञानानुपाती चेदागमप्रमा- णान्तरगतो विकल्पः प्रसज्येत निर्वस्तुकत्वे वा विपर्ययः स्यादित्यत आह–स नेति । न प्रमाणविपर्ययान्तर्गतः । कस्माद्यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति । १ ग, अत । २ क. ख. च. छ. ॰ही ।व° । ३ ज. ताऽत्र बा°।