पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा०३२०१२-१४] प्रादुर्भावोऽभिव्यक्तिश्चित्तस्यौद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते । पूर्वस्मात्परिणामादस्यायं विशेषः-तत्र संस्कारलक्षणयोधर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः । उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम् । इह तु क्षयोदयाविति सर्वार्थतारूपस्य विक्षेपत्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम् ॥ ११ ॥ तृतीयमेकाग्रतापरिणाममाह- शान्तोदितौ तुल्यप्रत्ययौ चित्त- स्यैकग्रतापरिणामः॥ १२ ॥ समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं, स एकाग्रतापरिणाम इत्युच्यते ॥ १२ ॥ चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था- परिणामा व्याख्याताः॥ १३ ॥ एतेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेषु इन्द्रियेषु बुद्धिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिः परिणामः । यथा---मूल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथा-तस्यैव घटस्यानागताधपरित्यागेन वर्तमानाध्वस्वीकारः । तत्परित्यागेन चातीताध्व- परिग्रहः । अवस्थापरिणामो यथा-तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिर्परिणममाना क्षणमप्यस्ति ॥ १३ ।। ननु कोऽयं धर्मीत्याशङ्कय धर्मिणो लक्षणमाह- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥ शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुपविष्टाः, उदिता येऽनागतमध्वानं परित्यज्यं वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति, अव्यपदेश्या ये शक्तिरूपेण स्थिता १ क. कर्मान्तःकरण । २ क. पत्तिभर । ३ क. यो: कालजस । ४ ख. "ज्य व्या । ग. "ज्य स्वव्या ।