पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[विभू०पा०२ ० ८-११) पातञ्जलयोगसूत्राणि । तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह- तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥ निर्बीजस्य निरालम्बनस्य शून्यभावनापरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात् ॥ ८ ॥ इदानीं योगसिद्धीराख्यातुकामः संयमस्य विषयपरिशुद्धिं कर्तुं क्रमेण परिणामत्रयमाह- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरो- धक्षणचित्तान्वयो निरोधपरिणामः ॥ ९ ॥ व्युत्थानं क्षिप्तमृढविक्षिप्ताख्यं भूमित्रयम् । निरोधः प्रकृष्ट सत्त्वस्याङ्गितया चेतसः परिणामः । ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्थथाक्रममभिभवप्रादुर्भाव यदा भवतः । अभिभवो न्यग्भूततया कार्यकरणासामर्थेनावस्थानम् । प्रादुर्भावो वर्तमानेऽध्वनि अभिव्यक्तरूपतयोऽऽविर्भावः । तदा निरोधक्षणे चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः-यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति, निरोधसंस्काररूपश्चाऽऽविर्भवति, धर्मिरूपतया च चित्तमुभेयान्वयित्वेऽपि निरोधत्मनाऽवस्थितं प्रतीयते, तदा स निरोधपरिणामशब्देन व्यवह्रियते । चलवाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाऽपि एवंभूतः परिणामः स्थैर्यमुच्यते ॥ ९ ॥ तस्यैव फलमाह- तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥ तस्य चेतस उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति । परिह्रतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः ॥ १ ॥ निरोधपरिणाममभिधाय समाविपरिणाममाह-. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिविपरिणामः ॥ ११ ॥ सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चितस्य विक्षेपो धर्मः । एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता, साऽपि चित्तस्य धर्मः । तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽयन्ताभिभव एकाग्रतालक्षणस्य धर्मस्य १ ख. म. योमाङ्गसि । २ क. ख. °धलक्ष°। ३ ग, न्यूनतया । ४ ख. ग. यस्य कारणेभ्योऽसामन्येना। ५ ख. ग. 'याऽवस्थामम् । त° । ६ क. ख. धलक्ष । ७ ख. । ८ क. यलक्षण । ९ ख. ग. 'भयत्रावयित्वेनाव । १० ख. ग. अस्यैव । ११ क. 'तसो निसका।