३२ . भोजदेवविरचितवृत्तिसमेतानि-
धारणामभिधाय ध्यानमभिधातुमाह--
तत्र प्रत्ययकतानता ध्यानम् ॥२॥
तत्र तस्मिन्प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणाम- परिहारद्वारेण यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमत्पत्तिः सा भ्यानम- ध्यते ॥२॥
चरम यगाङ्गं समाधिमाह--
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥
तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपं न्याभूतज्ञानस्व. रूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यगाधीयत एकाग्री क्रियते विक्षेपा-परिहृत्य मनो यत्र स समाधिः ॥ ३ ॥ उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकी संज्ञा कर्तुमाहे--
त्रयमेकत्र संयमः॥४॥
एकस्मिन्विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवहियते ॥ ४ ॥
तस्य फलमाह-
तज्जयात्प्रज्ञालोकः ॥५॥
तस्य संयमस्य जयादभ्यासेन साम्योत्पादनात्पज्ञायां विवेकख्यातेरालोकः प्रसवो भवति । प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः ॥ ५॥ तस्योपयोगमाह-
तस्य भूमिषु विनियोगः ॥ ६॥
तस्य संयमस्य भूमिषु स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः, अधरामधरां चित्तभूमि जितां जितां ज्ञात्वोत्तरस्या भूमौ संयमः कार्यः । न हानात्मीकृता- धरभूमिरुत्तरस्यां भूमौ संयम कुर्वाणः फलभाग्भवति ॥ ६ ॥ साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्या. शङ्कयाऽऽह--
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥
पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्र संप्रज्ञातस्य समाधेरन्तरङ्ग समाधिस्वरूपनिष्पादनात् ॥ ७ ॥
१ ख. ग. यथार्य । २ ग. रूपमश्रुनं ज्ञा । ३ ख. ° शून्यज्ञा 1 ४ ख. ग. इ- तत्रय । ५ स. 'या ध्यातव्यावि। ग. या ज्ञातव्यवि'। ६ ख. "करूपाया आलो° । " "कस्वरूपाया आलो । ख. विकासो । ग. परो। ८ ख, घसाधारमी । ग, ह्यसामात्माता धार । ९ ख. 'यमम ।