पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[विभू०पा०३०१] पातञ्जलयोगसूत्राणि । योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्र फलं चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम् । ततस्त्याज्यत्वात्क्लेशादीनां ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य च शास्त्राय- त्तत्वाच्छास्त्रस्य च हेयेहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वाद्धेयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेहानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधायोपादेयकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां योगाङ्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्याऽऽसनादीनां धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूर्वकं फलमभिहितम् । तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामेरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः साधनपादः ॥ ५५ ।। इति श्रीमहाराजाधिराजभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलयोगशास्त्रसूत्रवृत्तौ साधनपादो द्वितीयः ॥ २॥ अथ भोजदेवविरचितवृत्तिसहितयोगसूत्रेषु तृतीयो विभूतिपादः। यत्पादपद्मस्मरणादणिमादिविभूतयः । भवन्ति भविनामस्तु भूतनाथः स भूतये ॥ २ ॥ तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते । तत्र धारणायाः स्वरूपमाह--- देशबन्धश्चित्तस्य धारणा ॥१॥ देशे नाभिचक्रनासाग्रादौ चित्तस्य बन्धो विषयान्तरपरिहारेण यत्स्थिरीकरणं सा चित्तस्य धारणोच्यते । अयमर्थः--मैत्र्यादिचित्तपरिकर्मवासितान्त:करणेन यमनियमवता जितासनेन परिहतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधे प्रदेश ऋजुकायेन जितद्वंद्वेन योगिना नासाग्रादौ संप्रज्ञातस्य समाधेरभ्यासाय चित्तस्य स्थिरीकरणं कर्तव्यमिति ॥१॥ १ ग. हेयाइयका । २ ख. °यका । ३ ख. ग. गत्ये । ४ म. पादानका ५ ग. कुसुमितो । ६ ख. नि भावि । ७ ख. जाविधा । ८ ख. नरसि । ९ ख. शभंव' । १० ख. °स्य संब।