एतत् पृष्ठम् परिष्कृतम् अस्ति
३० . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५१-५५]
श्रीन्प्राणायामानभिधाय चतुर्थमभिधातुमाह- बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥ . प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यलोज्य यः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः । तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः-स बाह्याभ्यन्तरविषयावपर्यालोच्यैव ' सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्तम्भवृत्या निष्पद्यते । अस्य तु विषयद्वक्षिपको निरोधः । अयमपि पूर्वदेशकालसंख्यामिरुपलक्षितो द्रष्टव्यः ॥ ५१ ॥ चतुर्विधस्यास्य फलमाह- ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥ ततस्तस्मात्प्राणायामात्प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षीयते विनश्य- तीत्यर्थः ॥ ५२ ।। फलान्तरमाह- धारणासु च योग्यता मनसः ॥ ५३ ॥ धारणा वक्ष्यमाणलक्षणास्तासु प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरी भवति न विक्षेपं भजते ।। ५३ ॥ प्रत्याहारस्य लक्षणमाह--- स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥' इन्द्रियाणि विषयेभ्यः प्रतीपमाहियन्तेऽस्मिन्निति प्रत्याहारः । स च कथं निष्पद्यत इत्याह-चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिस्तेन संप्रयोग्यस्तदाभिमुख्येन वर्तनं 'तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानं, तस्मिन्सति चित्तस्वरूपमात्रानुकारी- जीन्द्रियाणि भवन्ति । यतश्चित्तमनु वर्तमानानि मधुकरराजमिवे मक्षिकाः सर्वाणीन्द्रि- याणि प्रतीयन्तेऽतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः प्रत्या- हार उक्तः ॥ १४ ॥ प्रत्याहारफलमाह- ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥ अभ्यस्यमाने हि प्रत्याहारे तथा वश्यानि आयत्तानीन्द्रियाणि संपद्यन्ते यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः । तदेवं प्रथमपादोक्तलक्षणस्य.
'१ ग. ॰लोचयतः स्त° । २ क. निष्पाद्यते । ३ ख. ॰क्यापेक्षको । ४ क. ॰यापेक्षको ॰व मधुम॰ । ग. ॰व मधुकरम॰ । ६ क. ॰कयो॰ ।'