पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[साध०पा०२सू०१७-६०] पातञ्जलयोगसूत्राणि । तस्यैव स्थिरसुखत्वप्राप्त्यर्थमुपायमाह-- प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ ४७ !! तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति संबन्धः । यदा यदाऽऽसनं बध्नामीतीच्छां करोति प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं संपद्यते । यदा चाऽऽकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽवधानेन तादात्म्यमापद्यते तदा देहाहंकाराभावान्नाऽऽसनं दुःखजनकं भवति । अस्मिंश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः ॥ ४७ ॥ तस्यैवानुनिष्पादि फलमाह- ततो द्वंद्वानभिघातः॥४८॥ तस्मिन्नासनजये सति द्वंद्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः ॥ १८ ॥ आसनजयानन्तरं प्राणायाममाह- तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥ __ आसनस्थैर्ये सति तन्निमित्तकः प्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृशः, श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः । श्वासप्रश्वासौ निरुक्तौ । तयोस्त्रिधा रेचैर्नस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते ॥ ४९॥ तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति-- स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसं- ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥ बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पुरकः । अन्तस्तम्भवृत्तिः कुम्भकः । तस्मिञ्जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्त इति कुम्भकः । त्रिविधोऽयं प्राणायामो देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशेनोपलक्षितो यथा-नासाद्वादशान्तादौ । कालेनोपलक्षितो यथा-षट्त्रिंशन्मात्रादिप्रमाणः । संख्ययोपलक्षितो यथा-इयतो वारान्कृत एतावद्भिः श्वासप्रश्वासै: प्रथम उद्धातो भवतीति । एतज्ज्ञानाय संख्याग्रहणमुपात्तम् । उद्धातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम्॥ ५० ॥ १ क. 'तेऽव्यय । २ क. 'दितं फ° । ३ क. ग. यादन ४ ख. ग. कृतलक्षणी ५ ख. ग. 'चनाक्षेपणपू । ६ क. आन्तरस्तम्भकवृत्तिः । ७ ग. दौ । नासामारभ्य दादशा. छ मुलपर्यन्तमित्यर्थः । का।