पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८. . भोजदेवविरचितवृत्तिसमेतानि- [साथ०पा०२सू०४२-४६) सौमनस्य खेदाननुभवेन मानसी प्रीतिः । एकाग्रता नियतेन्द्रियविषये चेतसः स्थैर्यम् । इन्द्रियजयो विषयपराङ्मुखाणामिन्द्रियाणामात्मनि अवस्थानम् । आत्मदर्शने विवेकख्यातिरूपे चित्तस्य योग्यत्वं समर्थत्वम् । शौचाभ्यासवत एते सत्त्वशुद्धयादयः क्रमेण प्रादुर्भवन्ति । तथा हि-सत्त्वशुद्धेः सौमनस्यं सौमनस्यादैकाग्र्यमैकाग्र्यादिन्द्रियजय इन्द्रियजयादात्मदर्शनयोग्यतेति ।। ४१॥ संतोषाभ्यासस्य फलमाह- संतोषादनुत्तमः सुखलामः ॥ ४२ ॥ संतोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति । यस्य बाह्यविषयसुखं शतांशेनापि न समम् ॥ ४२ ।। तपसः फलमाह-- कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥ तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिमुत्कर्षमादधाति । अयमर्थ:-चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियाणां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति । कायस्य यथेच्छमणुत्वमहत्त्वादीनि ॥ ४३ ॥ स्वाध्यायस्य फलमाह- स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥ अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया संप्रयोगो भवति । सा देवता प्रत्यक्षा भवतीत्यर्थः ॥ ४४ ॥ ईश्वरप्रणिधानस्य फलमाह- ___ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥ ईश्वरे यत्पणिधानं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याऽऽविर्भावो भवति । यस्मात्स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान्क्लेशान्परिहत्य समाधिं संबोधयति ॥ ४५ ॥ यमनियमानुक्त्वाऽऽसनमाह- स्थिरसुखमासनम् ॥ ४६ ॥ आस्यतेऽनेनेत्यासनं पद्मासनदण्डासनस्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखमनुद्वैजनीयं च भवति तदा योगाङ्गतां भजते ॥ ४६ ।। स. १ ख. निरूपिता । इ । २. यतदि । ३ ख. सवतः फ।४ क. र्षे यो मैं तथा । ५ ख. बाह्य सुखं ले0 1 ६ ख. ग. °दा तयोगा।