पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साध०पा०२सू०३७-४१] पातञ्जलयोगसूत्राणि । २७. भ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते यथा क्रियायामकृतायामपि योगी फलमाप्नोति । तद्वचनाद्यस्य कस्यचित्क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः ।। ३६ ॥ अस्तेयाभ्यासवतः फलमाह- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।। ३७॥ अस्तेयं यदाऽभ्यस्यति तदाऽस्य तत्प्रकर्षानिरभिलाषस्यापि सर्वतो दिव्यानि रत्नानि उपतिष्ठन्ते ॥ ३७ ॥ ब्रह्मचर्याभ्यासस्य फलमाह- ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥ यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्य सामर्थ्यमाविर्भवति । वीर्यनिरोधो हि ब्रह्मचर्य तस्य प्रकर्षाच्छरीरेन्द्रियमनःसु वीर्यं प्रकर्षमागच्छति ॥ ३८ ॥ अपरिग्रहाभ्यासस्य फलमाह- अपरिग्रहस्थैर्ये जन्मकतासंबोधः ॥ ३९ ॥ कथमित्यस्य भावः कथंता जन्मनः कथंता जन्मकथंता तस्याः संबोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहो यावदात्मनः शरीरुपरिग्रहोऽपि. परिग्रहः, भोगसाधनत्वाच्छरीरस्य । तस्मिन्सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनरपेक्ष्येण माध्यस्थ्यमवलम्बते. तदा मध्यस्थस्य रागादित्यागात्सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसंबोधः ॥ ३९ ॥ उक्ता यमानां सिद्धयः । अथ नियमानामाह --- __शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥ यः शौचं भावयति तस्य. स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण, जुगुप्सा घृणा समुपजायतेऽशुचिरयं कायो नात्राऽऽग्रहः कार्य इति । अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः संसर्गाभावः संसर्गपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति. ॥ ४० ॥ शौचस्यैव फलान्तरमाह- सत्त्वशुद्धिसौमनस्यैकोग्र्येन्द्रियजया- त्मदर्शनयोग्यत्वानि च ॥ ४१ ॥ भवन्तीति वाक्यशेषः । सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुद्धी रजस्तमोभ्यामनभिभवः । १ ख. कथमो । २ व. ग. कर्तव्य । ३ क. 'कायतेन्द्रि।