पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५ [विभू०पा०३ मू०१५-१६] पातञ्जलयोगसूत्राणि । व्यपदेष्टुं न शक्यन्ते तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियतकार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्म योऽनुपतति अनुवर्ततेऽन्वयित्वेन स्त्री करोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मात्युच्यते । यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते ॥ १४ ॥ एकस्य धर्मिणः कथमनेके परिणामा इत्याशङ्कामपनेतुमाह- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥ धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं [ तत् ] परिणाम- स्योक्तलक्षणस्यान्यत्वे नानाविधत्वे हेतुर्लिङ्ग ज्ञापकं भवति । अयमर्थः-याऽयं नियतः क्रमो मृच्चूर्णान्मपिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवंरूपः परिदृश्यमानः परिणामस्यान्यत्वमावेदयति, तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्यावस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणममानाः परिदृश्यन्ते । अतः सिद्धं क्रमान्यत्वात्परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते । यथा सुखादयः संस्थानादयश्च । केचिच्चैकान्तेनानुमानगम्याः । यथा-धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्ना- भिन्नरूपतया सर्वत्रानुगमः ॥ १५ ॥ इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह- परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥ धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात्तस्मिन्विषये. पूर्वोक्तसंयमस्य कारणादतीतानागतज्ञानं योगिनः समाधेराविर्भवति । इदमत्र तात्पर्यम्----अस्मिन्धर्मिणि अयं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यकिंचिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी जानाति । यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात्सर्वार्थग्रहणसामर्थ्य- मविद्यादिभिर्विक्षेपेरपक्रियते । यदा तु तैस्तैरुपायैर्विक्षेपाः परिहियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणासामर्थ्यमेकाग्रताबलादाविर्भवति ॥ १६ ॥ १ क. ग. कमि १२ ख. 'मनुपातित्वे । म. °मनुयायित्वे । ३ क. धर्मा । ४ क. य. च । ५ क. 'गम्यमा । ६ क. गम्यमा । ७ ख. लक्ष्यन्ते । ८ क. °था सर्वसः । ९ के. 4. 'माधिर्म' । १० ग. 'स्था वाऽना । ११ ख. ग. रजस्रं परिहियते ।