पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साध०पा०२सू०३०-३३] पातञ्जलयोगसूत्राणि । तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा----सत्यासनजये प्राणायामस्थैर्यम् । एषमुत्तरत्रापि योज्यम् ॥ २९॥ क्रमेणैषां स्वरूपमाह--- . अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥३०॥ तंत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वानर्थहेतुः । सदभावोऽहिंसा । हिंसायाः सर्वप्रकारेणैव परिहार्यत्वात्प्रथमं तदभावरूपाया अहिंसाया 'निर्देशः । सत्यं वाङ्मनसयोर्यथार्थत्वम् । स्तेयं परस्यापहरणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनामामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ॥ ३० ॥ एषां विशेषमाह- एते जातिदेशकालसमयानवच्छिन्नाः सावर्भौमा महाव्रतम् ॥ ३१ ॥ जातिर्ब्राह्मणत्वादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते । तद्यथा--ब्राह्मणं न हनिष्यामि तीर्थे न कंचन हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति । एवं चतुर्विधावच्छेदव्यतिरेकेण किंचित्क्वचित्कदाचित्कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्ना । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते न पुनः परिच्छिन्नावधारणम् ॥ ३१ ।। नियमानाह- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥ शौचं द्विविधं बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम् आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम् । संतोषस्तुष्टिः । शेषाः प्रागेव कृतव्याख्यानाः । एते शौचादयो नियमशब्दवाच्याः ॥ ३२ ॥ कथमेषां योगाङ्गत्वमित्यत आह- वितर्कबाधने प्रतिपक्षभावनम् ।। ३३ ।। वितर्क्यन्त इति वितर्का योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यद बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यमनियमानां योगाङ्गत्वम् ॥ ३३ ॥ १ ख. 'यो । २ ख. वकालं प । ग. कालमेव । ३ ख. क्यन्ते । त।