पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

NEJinni. ...- - - - MADRAS.4. २१ [साधःपा०२सू० १६-१८] पातञ्जलयोगसूत्राणि । स्यैव दुःखत्यम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्त्वरजस्तमसा या वृत्तयः सुखदुःखमोहरूपाः परस्परममिभाव्याभिभावकत्वेन विरुद्धा जायन्ते तासां सर्वत्रैव दुःखानुवेधादु:खत्वम् । एतदुक्तं भवति-ऐकान्तिकीमात्यन्तिकी च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयात्सर्वे विषया दुःखरूपतया प्रतिभान्ति । तस्मात्सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति ॥ १५ ॥ तदेवमुक्तस्य क्लेशकर्माशयविपत्कराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानान्छेद्यत्वात्सम्यग्ज्ञानस्य च साधनहेयोपादेयावधारणरूपत्वात्तदभिधानायाऽऽह~-- हेयं दुःखमनागतम् ॥ १६ ॥ भूतस्यातिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति ।। १६ ॥ हेयहेतुमाह--- द्रष्टदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥ द्रष्टा चिद्रपः पुरुषः, दृश्यं बुद्धिसत्वं, तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोग्यभोत्तृत्वेन संनिधानं स हेयस्य दुःखस्य गुणपरिणामस्य संसारस्य हेतुः कारणं तन्निवृत्त्या संसार निवृत्तिर्भवतीत्यर्थः ॥ १७ ॥ द्रष्टृदृश्ययोः संयोग इत्युक्तं, तत्र दृश्यस्य स्वरूपं कार्य प्रयोजनं चाऽऽह--- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् ॥ १८ ॥ प्रकाशः सत्त्वस्य धर्मः, क्रिया प्रवृत्तिरूपा रजसः, स्थितिर्नियमरूपा तमसः, ताः प्रकाशक्रियास्थितयः शीलं स्वाभाविक रूपं यस्य तत्तथाविधीमिति स्वरूपमस्य निर्दिष्टम् | भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च । इन्द्रियाणि बुद्धीन्द्रियकर्मेन्द्रियान्त:करणभेदेन त्रिविधानि । उभयमेतद्ग्राह्यग्रहणरूपमात्मा स्वरूपाभिन्नः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम् । भोगः कथितलक्षणः, अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः, तौ भोगापवर्गावर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः ॥ १८ ॥ सव २ख.न्ति तावत्स। ३ ख. खप।४ क. रूपस्य। १ख. म. प्र ५ ख.ग, 'यस्व।