पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०१३-१९] इदानीं कर्माशयस्य स्वभेदभिन्नं फलमाह--- ___ सति मूले तद्विपाको जात्यांयुर्भोगाः ॥ १३ ॥ मूलमुक्तलक्षणाः क्लेशाः । तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यत्वादिः । आयुश्चिरकालमेकशरीरसंबन्धः । भोगा विषया इन्द्रियाणि सुखसंविदुःखसंविच्च कर्मकरणभावसाधनव्युत्पत्या भोगशब्दस्य । इदमत्र तात्पर्यम्-चित्तभूमावनादिकालसंचिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते ॥१३॥ उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारेण कार्यकर्तृत्वमाह-- ते ह्लादपरितापफलाः पुण्या- पुण्यहेतुत्वात् ॥ १४ ॥ ह्लादः सुखं, परितापो दुःखं. ह्लादपरितापौ फलं येषां ते तथोक्ताः । पुण्यं कुशलं कर्म, तद्विपरीतमपुण्यं. ते पुण्यापुण्ये कारणं येषां ते तेषां भावस्तस्मात् । एतदुक्तं भवति-पुण्यकर्म च्या जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्रापेक्षया द्वैविध्यम् ॥ १४ ॥ योगिनस्त सर्वं दुःखभित्याह---- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरो- धाच्च दुःखमेव सर्वं विवेकिनः ॥ १५॥ विवेकिनः परिज्ञातक्लेशादिविवेकस्य परिदृश्यमानं सकलमेव भोगसाधनं सविषं ग्वाद्भ्रमामिव दु.खमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताभिजातो योगी दु:खलेशेनाप्युद्धिजते । यथाऽक्षिपात्रमातन्तुस्पर्शमात्रेणैव महती पीडामनुभवति नेतरदङ्गं तथा विवेकी स्वल्पदुःखानुबन्धेनापि उद्विजते । कथमित्याह---परिणामतापसंस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्धेस्नदप्राप्तिकृतस्य दुःखस्थापरिहार्यतया दुःखान्तरसाधनत्याचास्येव दुःखरूपतेति परिणामदुःखत्वम् । उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवायस्थितत्वात्मुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखत्वं च स्याभिमतानभिमतविषयसंनिधाने सुखसंविदुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते । संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदासर्व- १ क.स्य स्वभेदभिमस्य स्व। २ क. सारियां का' । ३ ग, कारणे । ४ ख' घमणुत ।