पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[साध०पा०२सू० १०-१२] पातञ्जलयोगसूत्राणि । वियोगो मा भूदिति अन्वहमनुबन्धरूपः सर्वस्यैवाऽऽ कृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः ॥ ९॥ तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः । न चाज्ञातानां तेषां परिहारः कर्तुं शक्य इति तज्ज्ञानाय तेषाद्देशं क्षेत्रं विभागं लक्षणं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह-- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते सूक्ष्माः क्लेशा ये वासनारूपेणैव स्थिता न वृत्तिरूपं परिणाममारभन्ते, ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः । स्वकारणास्मितायां कृतार्थं सवासनं चितं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां संभवः ॥ १० ॥ स्थूलानां हानोपायमाह - ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानेनैव चित्तैकाग्रतालक्षणेन हेया हातव्या इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्वात्तासां निवत्तिर्भवति । यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते, यस्तु तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते ॥ ११ ॥ एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्याभिधातुमाह-- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ कर्माशय इत्यनेन तस्य स्वरूपमभिहितम् । यतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितम् । यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः । जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः । तथाहि-कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति । यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्येषां विश्वामित्रादीनां तपःप्रभावाज्जात्यायुषी । केषांचिज्जातिरेव . । यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । उर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तरूपत्वेन यथायोगं योज्यम् ।। १२ ।। १ ख. न. 'मित्तं विना प° । २ ख. 'मुपदेशं । ३ क. स्थिताः स्ववृ । ४ क. यस्य तदभि । ५ क. तथा।