एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०५-९]
विपैर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते । तस्यां च मिथ्यौरूपाैयां सम्यग्ज्ञानेन निवर्ति- तायां दग्धबीजकल्यानाभेषां न क्वचित्प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चीयते । अतः सर्वेऽपि अविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारि- त्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः काैर्य इति ॥ ४ ॥ अविद्याया लक्षणमाह - अनित्याशुचिदुःखानात्मसु नित्य- शुचिसुखात्मख्यातिरविद्या ॥५॥ अतंस्मिस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या एव भेदप्रति- पादनम्--अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येति उच्यते । एवमशुचिषु कायादिषु शुचित्वाभिमानः, दुःखेषु च विषयेषु सुखत्वाभिमानः, अनात्मनि शरीर आत्मत्वाभिमानः। एतेनापुण्ये पुण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः ॥ ५ ॥ अस्मितां लक्षयितुमाह- दृग्दर्शनशक्त्योरेकात्मतै(ते)वास्मिता ॥ ६॥ दृक्शक्तिः पुरुषः, दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्त्रिकः परिणामोऽन्तःकरण- रूपः, अनयोभोग्यभोक्तृत्वेन जडाजडत्वेनात्यन्तभिन्नरूपयोरेकतामिमानोऽस्मितेति उच्यते। यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहिताऽपि कर्त्र्यहं भोग्यहमित्यभिमन्यते । सोऽयम. स्मिताख्यो विपर्यास: क्लेशः ॥६॥ रागस्य लक्षणमाह- सुखानुशयी रागः ॥ ७ ॥ सुखमनुशेत इति मुखानुशयी सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गधौ रागसंज्ञकः क्लेशः ॥ ७ ॥ द्वेषस्य लक्षणमाह-- दुःखानुशयी द्वेषः ॥ ८ ॥ दुःखमुक्तलक्षणं, तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिर्लंपतो योऽयं निन्दा-स्मकैः क्रोधः स द्वेषलक्षणः क्लेशः ॥ ८ ॥ अभिनिवेशस्य लक्षणमाह-- “स्वरसवाही विदुषोऽपि तन्वनुबन्धोऽभिनिवेशः ॥ ९ ॥ पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयोदेर्मम
१ ख. ग. ॰पर्यासान्ध॰ । २ क. तस्मान्निथ्याज्ञानरू॰। ३ ग. ॰ध्यभूतायां । ४ क.
॰पायामविद्यायां स॰ । ५ ख. म. कर्तव्य । ६ क. सुखाभि॰ ।७ क.आत्माभि'। ८ ख. ॰लभ्यता योऽयं निरासो द्वे॰ । ९ ग. ॰कः स । १० क, तथारूढोऽभि॰ । ११ क. ग ॰यादिभिर्म॰ ।