पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ साध०पा०२सू० २-४ ] पातञ्जलयोगसूत्राणि । जपः । ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षाया समर्पणम् । एतानि क्रियायोग इत्युच्यते ॥ १॥ स किमर्थ इत्यत आह--- .. समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥ क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः । समाविरुक्तलक्षणस्तस्य भावना चेतसि पुनःपुनर्निवेशनं सोऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति-- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाशिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात्प्रथमं क्रियायोगावधानपरेण योगिना भवितव्यमित्युपदिष्टम् ॥ २ ॥ क्लेशतनूकरणार्थं इत्युक्तं, तत्र के क्लेशा इत्यत आह- __ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥३॥ अविद्यादयो वश्यमाणलक्षणाः पञ्च । ते च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि चेतसि प्रवर्तमानाः संसारलक्षणं गुणपरिणामं द्रढयन्ति ।। ३ ॥ सत्यपि सर्वेषां तुलले क्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह --- अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥ अविद्या मोहः, अनात्मन्यात्माभिमान इति यावत् । सा क्षात्रं प्रसवभूमिरीत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम् । अतो यत्राविद्या विपर्यपज्ञानरूपा शिथिली भवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्यपज्ञानसद्भावे च तेषामद्भवदर्शनास्थितमेव मूलत्वमविद्यायाः । प्रसुप्ततनुविच्छिनोदाराणामिति । तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नाऽऽरमन्ते ते प्रसुप्ता इत्युष्यन्ते । यथा बालावस्थायां, बालस्य हि वासनारोग स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते । ते तनवो ये स्वस्थप्रतिपक्षभावनया शिथिलीकृतकार्यसंपादनशक्तयो वासनावशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः । यथाऽभ्यासवतो योगिनः ।.ते विछिन्ना ये केनचिद्वलता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति । यथा द्वेषावस्थायां राग , रागावस्थायां वा द्वेष , न ह्यनयो: परस्परविरुद्धयोर्युगपत्संभवोऽस्ति । ते उदारा ये प्राप्तसहकारिसंनिधयः स्वं स्वं कार्यमभिनिवर्तयन्ति । यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां १ ख. ग. थमतःकि' । २ क. 'योगविया । - क. संस्कार । ४ क. 'रूपाः स्थि।