पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ . भोजदेवविरचितवृत्तिसमेतानि- [साध०पा०२सू०१९-२२] तस्य च दृश्यस्य नानावस्थारूपपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात्तदवस्थाः कथयिक तुमाह- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि, अविशेषास्तन्मात्रान्तःकरणानि, लिङ्गमात्रं बुद्धिः, अलिङ्गमव्यक्तमित्युक्तम् । सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यत्वेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि ॥ १९ ॥ एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यत्वात्तदवस्थासहितं व्याख्यायोपादेयं द्रष्टारं व्याख्या- तुमाह- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रः । मात्रग्रहणं धर्मधर्मिनिरासार्थम् । केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति । स शुद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः प्रत्यया विषयोपरक्तानि ज्ञानानि, तानि अनु अव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति । एतदुक्तं भवति-जातविषयोपरागायामेव बुद्धौ संनिधिमात्रेणैव पुरुषस्य द्रष्टृत्वमिति ॥२०॥ स एव भोक्तेत्याह--- तदर्थ एव दृश्यस्याऽत्मा ॥२१॥ दृश्यस्य प्रागुक्तलक्षणस्याऽऽत्मा यत्स्वरूपं स तदर्थस्तस्य पुरुषस्य भोक्तृत्वसंपादनं नाम स्वार्थपरिहारेण प्रयोजनम् । न हि प्रधानं प्रवर्तमानमात्मनः किंचित्प्रयोजनमपेक्ष्य प्रवर्तते किंतु पुरुषस्य भोग संपादयामीति ॥ २१ ॥ यद्येवं पुरुषस्य भोगसंपादनमेव प्रयोजनं तदा संपादिते तस्मिंस्तन्निष्प्रयोजनं विरतव्यापारं स्यात् । तस्मिश्च परिणामशून्ये शुद्धत्वात्सर्वे द्रष्टारो बन्धरहिताः स्युः । ततश्च संसारोच्छेद इत्याशङ्कयाऽऽह- कृतार्थं प्रति नष्टमप्यनष्टं तदन्य- साधारणत्वात् ॥ २२ ॥ यद्यपि विवेकख्यातिपर्यन्ताद्भोगसंपादनात्कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापार तथाऽपि सर्वपुरुषसाधारणत्वादन्या प्रत्यनष्टव्यापारमवतिष्ठते । अतः प्रधानस्य १ क. र वक्तुमा । २ म. व्याकर्तुमा । ३ क. °न सुप्र । ४ क. नि पिज्ञा ।५ क. भोक्तृत्व संपादयितुमिति । ६ क. ततः।