पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समा० पा०१ सू० ४६-५०] पातञ्जलयोगसूत्राणि । एतासां समापत्तीनां प्रकृते प्रयोजनमाह- ता एव सबीजः समाधिः ॥ ४६॥ ता एवोक्तलक्षणाः समापत्तयः सह बीजेनाऽऽलम्बनेन वर्तत इति सबीजः संप्रज्ञातः समाधिरित्युच्यते, सर्वासां सालम्बनत्वात् ॥ ४६॥ अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह- निर्विचारवैशारद्येऽध्यात्मप्रसादः॥४७॥ निर्विचारत्वं व्याख्यातम् । वैशारद्यं नैर्मल्यम् । सवितर्का स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः । ततोऽपि निर्विकल्परूपाया निर्विचारायाः । तस्यास्तु निर्विचारायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाहयोग्यं भवति । एतदेव चित्तस्य वैशारद्यं यत्स्थितौ दाढर्यम् ॥ ४७ ॥ तस्मिन्सति किं भवतीत्याह- __ ऋतंभरा तत्र प्रज्ञा ॥४८॥ ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययणाऽऽच्छाद्यते सतंभरा प्रज्ञा तस्मिन्सति भवतीत्यर्थः । तस्माञ्च प्रज्ञालोकात्सर्वं यथावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति ॥ ४८ ॥ अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह- श्रुतानुमानप्रज्ञाभ्यां सामान्यवि- षया विशेषार्थत्वात् ।। ४९॥ श्रुतमागमज्ञानम् , अनुमानमुक्तलक्षणम् , ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् । इयं पुनर्निर्विचारवैशारद्यसमुंद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् । अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते । अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य इत्युपदिष्टं भवति ॥ ४९ ॥ अस्याः प्रज्ञायाः फलमाह- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥ तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति स्वकार्यकरणाक्षमान्करोतीत्यर्थः । यतस्तत्त्वरूपतयाऽनया. जनिताः संस्कारा बलवत्त्वादतत्त्वरूपप्रज्ञाजनितान्संस्कारान्बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञा- मभ्यसेदित्युक्तं भवति ॥ ५० ॥ १५. ते यो । २ ख. म. स्थिरप्र । ३ ख. धभावादन्यपज्ञाभ्यां वि । ४ ग. भुपेता म" । ५ ख. ग. मत्रि' । ६ ख. रा निगलम्बनत्वा ।