पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ भोजदेवविरचितवृत्तिसमेतानि- [समा०पा०१सू०४२-४५] • इदानीमुक्ताया एव समापत्तेश्चातुर्विध्यमाह- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥ श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः । अर्थो जात्यादिः । ज्ञानं सत्वप्रधाना बुद्धिवृत्तिः । विकल्प उक्तलक्षणः । तैः संकीर्णा यस्यामेते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते, गौरित्यर्थो गौरिति ज्ञानमित्यनेनाऽऽकारण सा सवितर्का समापत्तिरुच्यते॥४२॥ उक्तलक्षणविपरीतां निर्वितर्कामाह- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमा- त्रनिर्भासा निर्वितर्का ॥ ४३ ॥ शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भूतनांशत्वेक्त स्वरूपशून्येव निर्वितर्का समापत्तिः ॥ ४३ ।। भेदान्तरं प्रतिपादयितुमाह- एतयैव सविचारा निर्विचारा च. सूक्ष्मविषया व्याख्याता ॥४४ ॥ एतयैव सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता । कीदृशी, सूक्ष्मविषया सूक्ष्मस्तन्मात्रेन्द्रियादिविषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतालम्बना । शब्दार्थविषयत्वेन शब्दार्थ- विकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ॥ १४ ॥ अस्या एव सूक्ष्मविषयायाः किंपर्यन्तः सूक्ष्मविषय इत्याह- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥ सविचारनिर्विचारयोः समापत्योर्यत्सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानं न क्वचिल्लीयते न वा किंचिल्लङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मविषयत्वम् । तथा हि--- गुणानां परिणाम चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्रं बुद्धिः, अलिङ्गं प्रधानमिति । नातः परं सूक्ष्ममस्तीत्युक्तं भवति ॥ ४५ ॥ १ क. दयस्रयः । २ क. °न विकल्परूपेण प्र । ३ क. °ण या सा । ४ क. "ततया । ५ म. ज्ञानसत्त्वेन । ६ क. भूतेन्द्रियाल । ७ ग. सरहि' । ८ क. धर्ममा । ९ क. भूतेन्द्रि- याणि । १० क. मावान्तःकरणानि लि।