पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[समा०पा०१सू०, २९-४१] पातञ्जलयोगसूत्राणि । लक्षणा । तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थिति करोति ॥ ३८ ॥ नानारुचित्वात्प्राणिनां यस्मिन्कस्मिंश्चिद्वस्तुनि योगिनः श्रद्धा भवति तस्य ध्यानेनापीसिद्धिरिति प्रतिपादयितुमाह- यथाभिमतध्यानाद्वा ।। ३९ ॥ यथाभिमतवस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतः स्थिरी भवति ॥ ३९॥ एवमुपायान्प्रदर्श्य फलदर्शनायाऽऽह-- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥ एभिरुपायश्चित्तस्य स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते, न क्वचित्परमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिह- न्यत इत्यर्थः । एवं स्थूलमाकाशादिपरममहत्पर्यन्तं भावयतो न क्वचिच्चेतसः प्रतिघात उत्पद्यते । सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः ।। ४०॥ एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्या ( त्यत आ ) ह- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्रा- ह्येषु तत्स्थतदञ्जनता समापत्तिः ।। ४१ ।। क्षीणा वृत्तयो यस्य तत्क्षीणवृत्ति तस्य ग्रहीतृग्रहणग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं तत्रैकाग्रता । तदञ्जनता तन्मयत्वं, न्यर्ग्भृते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः । तथाविधा समापत्तिः, तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाह-अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात्तस्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथाऽपि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्टः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासंभवात् । ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं बोद्धव्यम् ॥ ४१ ।। १ क. °माण्वन्ते । २ क. हत्त्वपर्य° । ३ ख. ग. सत्कृतस्य । ४ ख. ग. षु अस्मि. तोन्द्रि। ५ ख. ग. तदेका । ६ क. क्षीणभूते।७ ख. "कर्षात् । त° । ८ ख. ग. तद्रूपानं यो । ९ ख. ग. 'त्तसत्त्वस्य । १० ख. हीतृभावासं। ११ ख. हणग्रहीत्रोरपि स । १२ ख पनत्व बो । १३ ग. 'नं तद्रूप रिणामत्वं बो।