पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ - भोजदेवविरचितत्तिसमेतानि- [ समा०पा० १सू०३५-३८]

स्तरापूरणेन पुरितस्य वा तत्रैव निरोधेन । तदेवं रेचकपूरककुम्भकभेदेन त्रिविधः प्राणा- यामश्चित्तस्य स्थितिमेकाग्रतया निबध्नाति । सर्वासामिन्द्रियवृत्तीनां प्राणावृत्तिपूर्वकत्वात् । मनःप्राणयोश्च स्वव्यापारे परस्परमेकयोगक्षेमत्वाज्जीयमानः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति । समस्तदोषक्षयकारित्वं चास्याऽऽगमे श्रूयते । दोषकृताश्च सर्वा विक्षेपवृत्तयः । अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ॥ ३४ ॥ इदानीमुपायान्तरप्रदर्शनोपक्षेपेण संप्रज्ञातस्य समाधैः पूर्वाङ्गं कथयति-

विषयवती वा प्रवृत्तिरुत्पन्ना
स्थितिनिबन्धिनी ॥ ३५ ॥

मनस इति वाक्पशेषः । विजया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति । तथा हि-नासाग्रे चितं धारयतो दिव्यगन्धसंबिदुपजायते । तादृश्येव जिह्वाग्रे रससंवित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्दिव्ये विषये जायमाना संविञ्चित्तस्यैकाग्रताया हेतुर्भवति । अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् ॥ ३५ ॥

  एवंविधमेवोपायान्तरमाह-

विशोका वा ज्योतिष्मती ॥ ३६॥

प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्यशेषः । ज्योतिःशब्देन सात्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मती प्रवृत्तिः । विशोका विगतः सुखमयसत्त्वाभ्यासवशाच्छोको रजःपरिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः--हृत्पद्मसंपुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञाल्लोकात्सर्ववृतिपरिक्षये चेतसः स्थैर्यमुत्पद्यते ॥ ३६ ॥

  उपायान्तरप्रदर्शनद्वारेण संप्रज्ञातसमाधेविषयं दर्शयति--

वीतरागविषयं वा चित्तम् ॥ ३७ ।।

मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयामिलाषस्तस्य यच्चित्तं 'परिहृतक्लेशं तदालम्बनीकृतं चेतसः स्थितिहेतुर्भवति ।। ३७ ॥

      एवंविधमुपायान्तरमाह- .

स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥

प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा पूर्वोक्त

१ क. प्रतायां नि । २ . त्या क्षीयमाणः मा' । ३ ख. ग. पूर्वरङ्गं करोति ! कर ख. "यत्वाभ्या।