पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० भोजदेवविरचितवृत्तिसमेतानि- [समा०पा०१सू०२८-३१]

श्यते न तु केनचिस्क्रियते, यथा पितापुत्रयोविद्यमान एव संबन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित्प्रकाश्यते ॥ २७ ॥ उपासनमाह-

 तज्जपस्तदर्थभावनम् ॥ २८ ॥

तस्य सार्वत्रिमात्रस्य प्रणवस्य जपो यथावदुचारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनः

पुनश्चेतसि विनिवेशनमेकाग्रताया उपायः । अतः समाधिसिद्धये योगिना प्रणवो जप्य- स्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति ॥ २८ ॥ उपासनायाः फलमाह--

  ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥

तस्माज्जपात्तदर्थभावनाञ्च योगिनः प्रत्यक्चेतनाधिगमो भवति विषयपातिकृत्येन

स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्शक्तिः सा प्रत्यक्चेतना तस्या अधिगमो ज्ञानं भवति । अन्तराया वक्ष्यमाणास्ते पामभावः शक्तिप्रतिबन्धोऽपि भवति ॥ २९ ॥ अथ फेऽन्तराया इत्याशङ्कायामाह--

   व्याधिस्त्यानसंशयप्रमादालस्याविरति-
                                भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थित-
                                 त्वानि चित्तविक्षेपास्तेऽन्तरायाः॥३०॥

नवैते रजस्तमोबलात्प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति तरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । स्त्यानमकर्मण्यता चित्तस्य । उभयकोटयालम्बनं ज्ञानं संशयो योगः साध्यो न वेति । प्रमादोऽनवधानता समाधिसा- धनेष्वौदासीन्यम् । आलस्य कायचित्तयोर्गुरुत्वं योगविषये प्रवृस्यभावहेतुः । अविरति- श्चित्तस्य विषयसंप्रयोगात्मा गर्धः । भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम् । अलब्धभूमिकत्वं कुतश्चिनिमित्तात्समाधिभूमेरल भोऽसंप्राप्तिः । अनवस्थितत्वं लन्धोया- मपि भूभौ चित्तस्य तत्राप्रतिष्ठा । त एते समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इस्युच्यन्ते ॥ ३०॥

   चित्तविक्षेपकारकानन्यानप्यन्तरायान्प्रतिपादयितुमाह--

    दुःखदौर्मनस्याङ्गन्मेजयत्वश्वासप्रश्वासा
                            विक्षेपसहभुवः ॥ ३१ ॥

                                                                           १ क. °म त्रिकस्य । २ म. विक्षेप्य । ३ ख. क.स्पता । ४ ख. 'देऽनुन्थानशीलता ।

ग. दोऽननुष्ठानशीलता ! ५ ख. ग. 'ब्धावस्थाया। ६ ख ग. °पि समाविभू' ।