पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[समा०प०१सू०२५-२७) पातंजलयोगसूत्राणि । माने अनादिभूते । तेन च तथाविधेन सत्त्वेन तस्यानादिरेव संबन्धः । प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः । यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिसंक्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य । तस्य केवल एवं सात्त्विकः परिणाम उत्कर्षवाननादिसंबन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एवेश्वरः । मुक्तात्मना तु पुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम् । न चेश्वराणामनेकत्वं, तेषां तुल्यत्वे भिन्नाभिप्रायत्वात्कार्यस्यैवानुप॑पत्तेः। उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्चर्यस्य ॥ २४ ॥ एवमीश्वरस्य स्वरूपमभिधाय प्रमाणमाह- तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ २५ ॥ तस्मिन्भगवति सर्वज्ञत्वस्य यद्वीजमतीतानागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद्वीजमिव बीज तत्तत्र निरतिशयं काष्ठा प्राप्तम् । दृष्टा ह्यल्पत्वमहत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः । यथा परमाणावल्पावस्याऽऽकाशे परममहत्त्वस्य । एवं ज्ञाना. दयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः । यद्यपि सामान्यमानेऽनुमानस्य पर्यवसितत्याना विशेषावगतिः संभवति तथाऽपि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं, तस्य कारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् । कल्पप्रलयमहाप्रलयेषु निःशेषान्संसारिण उद्धरिष्यामीति तस्याध्यवसायः । यद्यस्येष्टं तत्तस्य प्रयोजनम् ॥ २५ ॥ एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह--- स पूर्वषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ आद्यानां स्रष्ट्रणां ब्रह्मादीनामपि स गुरुरुपदेष्टा । यतः स कालेन भावच्छिद्यते, अनादित्वात् । तेषां पुनरीदिमत्त्वादस्ति कालेनावच्छेदः ।। २६ ॥ एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह--- तस्य वाचकः प्रणवः ।। २७ ।। इत्यमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः प्रकर्षेण नयते स्तुयतेऽनेनेति नौति स्तोतौति वा प्रणव ओंकारस्तयोश्च वाच्यवाचकभावलक्षणः संबन्धो नित्यः संकेतेन प्रका- १ क. मानुर । २ क. ख. "ख्ये प्र' । ३ ख. ग, पतिः । उ । ४ व. ग. शिवी'। ५ के. नमावस्य ! ६ क. पां अमदीना पु । ' द. ग. पणः ।