पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ . भोजदेवविरचितवृत्तिसमेतानि- समा०पा० १सू०२१-२४]

उक्तोपायवतां योगिनामुपायभेदाद्भेदानाह-

तीव्रसंवेगानामासन्नः ॥ २१ ॥ .

समाधिलाभ इति शेषः । संवेगः क्रियाहेतुदृढतरः संस्कारः । स तीव्रो येषामधिमात्रोपायानां तेषमासन्नः समाधिलाभः, समाधिफलं चाऽऽसन्नं भवति शीघ्रमेव संपद्यत इत्यर्थः ॥ २१ ॥ के ते तीव्रसंवेगा इत्यत आह ----

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२॥

तेभ्य उपायेभ्यो मुद्वादिभेदभिन्नेभ्त उपायवतां विशेषो भवति । मृदुर्मध्योऽधिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेगमध्यसंवेगतीव्रसंवेगभेदास्त्रिधा । तद्भेदेन च नव योगिनो भवन्ति । मृदूपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । मध्योपायो मृदुसंवेगो मध्यसंयेगस्तीव्रसंवेगश्च । अधिमात्रोपायो मृदुसंवेगो मध्यसंवेगस्तीव्र संवेगश्च । अधिमात्रोपाये तीव्रसंवेगे च महान्यत्नः कर्तव्य इति भेदोपदेशः ॥ २२ ॥ इदानीमेतदुपायविलक्षणं सुगममुपायान्तरमाह-

ईश्वरप्रणिधानाद्वा ॥ २३॥

ईश्वरो वक्ष्यमाणलक्षणः, तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणं, विषयसुखादिकं फलमनिच्छन्सर्वाः क्रियास्तस्मिन्परमगुरावर्पयति तत्प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः ॥ २३ ॥ ईश्वरस्य प्रणिधानात्समाधिलाभ इत्युक्तं, तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकमुपासनाक्रमं तत्फलं च क्रमेण वक्तुमाह-

क्लेशकर्मविपाकाशयैरपरामृष्टः
पुरुषविशेष ईश्वरः ॥ २४ ॥

क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः । विहितप्रतिषिद्वव्यामिश्ररूपाणि कर्माणि । विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः । आ फलविपाकाञ्चित्तभूमौ शेरत इत्याशया वासनाख्याः संस्कारास्तैरपरामृष्टस्त्रिष्वपि कालेषु न संस्पृष्टः । पुरुषविशेषः, अन्येभ्यः पुरुषेभ्यो विशिष्यत इति विशेषः । ईश्वर ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षमः । यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथाऽपि चित्तगतस्तेषामपदिश्यते । यथा योद्धृगतौ जयपराजयौ स्वामिनः । अस्य तु त्रिष्यपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति । अतः स विलक्षण एव भगवानीश्वरः । तस्य च तथाविधमैश्वर्यमनादेः सत्त्वोत्कर्षात् । सत्त्वोत्कर्षश्वास्य प्रकृष्टज्ञानादेव । न चानयोनैिश्वर्थयोरितरेतराश्रयत्वं, परस्परानपेक्षत्वात् । ते द्वे ज्ञानेश्वर्ये ईश्वरसत्त्वे वर्त- १ क. ख. न दर्शयितुमा । २ ख. पर मृष्टः ।