पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[समा०पा०१२०१९-२० ]

पातञ्जलयोगसूत्राणि।

प्रत्ययस्तस्याभ्यास: पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेतीतिनैरन्तर्येण पर्युदसनं तत्पूर्वः संप्रज्ञातसमाधिः(धि)संस्कारशेषोऽन्यस्तद्विलक्षणोऽ- संप्रज्ञात इत्यर्थः । न तत्र किंचिद्वेद्यं संप्रज्ञायत इत्यसंप्रज्ञातो निर्बीजः समाधिः । इह चतुर्विधश्चित्तस्य परिणामः-- व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोधश्च । तत्र क्षिप्तमृढे चित्तभूमी व्युत्थानं, विक्षिप्ता भूमिः सत्वोद्रेकात्समाधिप्रारम्भः । एकाग्रत्वनिरुद्धते च पर्यन्तभूमी । मतिपरिणामं च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भः संस्कारैः प्रत्याहन्यन्ते । तज्जाश्चैकाग्रताजैः, निरोधजनितैरेकाग्रताजाः संस्काराः स्वरूपं च हन्यन्ते । यथा सुवर्णसंवलितं ध्मायमानं सीसकमात्मानं सुवर्णमलं च निर्दहति एवमे- काग्रताजनितान्संस्कारान्निरोधजाः स्वात्मानं च निर्दहन्ति ॥ १८ ॥

तदेवं योगस्य स्वरूपं भेदं संक्षेपेणोपायं चाभिधाय विस्तरेणोपायं योगाभ्या(भा)सप्रदर्शनपूर्वकं वक्तुमुपक्रमते--

भवप्रत्ययो विदेहप्रकृतिलयानाम् ।। १९ ।।

विदेहाः प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे व्याख्याताः, तेषां समाधिर्भवप्रत्ययः, भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । अयमर्थः-आविर्भूत एवं संसारे ते तथाविधसमाधिभाजो भवन्ति । तेषां परतत्वादर्शनाद्योगाभासोऽयम् । अतः पर- तत्त्रज्ञाने तद्भावनायां च मुक्तिकामेन महान्यनो विधेय इत्येतदर्थमुपदिष्टम् ॥ १९ ॥ तदन्येषां तु--

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

विदेहप्रकृतिलयव्यतिरिक्तानी योगिनां श्रद्धादिपूर्वकः श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः । ते च श्रद्धादयः क्रमादुपायेपेयभावेन प्रवर्तमानाः संप्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रद्धा योगविषये चेतसः प्रसादः । वीर्यमुत्साहः । स्मृतिरनुभूतासंप्रमोषः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्र श्रद्धावतो वीर्यं जायते योगविषय उत्साहवान्भवति । सोत्साहस्य च पाश्चात्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाञ्च चेतः समाधीयते । समाहितचित्तश्च भाव्यं सम्यग्विवेकेन जानाति । त एते संप्रज्ञातसमाधेरुपायाः । तस्याभ्यासात्पराञ्च वैराग्याद्भवल्यसंप्रज्ञातः ॥ २० ॥}}

 १ ख. हन्यते । २ क. आधिमात्रान्तर्भूता र । ३ ब. गाभ्यासो' । ४ क. ख. नां अं'। ५ क. 'त्यानुभूतिषु । ६ ख ग. "रुपजायते।