पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ . भोजदेवविरचितवृत्तिसमेतानि- समा०पा०१सू०१७-१८) एवं योगस्य स्वरूपमुक्त्वा संप्रज्ञातरूपं भेदमाह -- वितर्कविचारानन्दास्मितारू- पानुगमात्संप्रज्ञातः ॥ १७॥ समाधिरिति शेषः । सम्यक्संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन स संप्रज्ञातः, समाधिर्भावनाविशेषः । स वितर्कादिभेदाच्चतुर्विधः-सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम्---ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसंधानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः । तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते । एवंपर्यन्तः समाधिर्ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावञ्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिर्भवति । अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतं शुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाचितिशक्तेरूद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते। न चाहंकारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽहंकारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिर्लीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषाः परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते । ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्तेि तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते । तत्र संप्रज्ञाते समाधौ चतस्रोऽव्यवस्थाः शक्तिरूपतयाऽवतिष्टन्ते । तत एकैकस्यात्याग उत्तरोत्तरत्रेति चतुरवस्थोऽयं संप्रज्ञातः समाधिः ॥ १७ ॥ असंप्रज्ञातमाह- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः । विरामश्चासौ प्रत्ययश्चेति विराम- १ म. 'तानु । २ ख. °यत अात्मस्वरू। ३ ख. ग. प्रवर्तते । ४ ख. भावयति । ५ ख' म. मेन । ६ ख. म. व सवितर्कस ! ७ क. त? 10 क. 'त्तरा इति ।