पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समा०पा० १सू०१२--१६] पातञ्जलयोगसूत्राणि । एवं वृत्तीव्याख्याय सोण्यं निरोधं व्याख्यातुमाह- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे, ताभ्यां प्रकाशप्रवृत्तिनियमरूपा या वृत्तयस्तासां • निरोधो भवतीत्युक्तं भवति । तासां विनिवृत्तबाह्याभिनिवेशानामन्तर्मुखतया स्वकारणा एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण तद्वैमुख्यमुत्पाद्यते । अभ्यासन च सुखजनकशान्तप्रवाहप्रदर्शनद्वारण दृढं स्थैर्यमुत्पाद्यते । इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ॥ १२ ॥ अभ्यास व्याख्यातुमाह- तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥ वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणाम; स्थितिस्तस्यां यत्न उत्साहः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यास इत्युच्यते ॥ १३ ॥ तस्यैव विशेषमाह- स तु दीर्घकॉलनैरन्तर्यसत्कारसेवितो दृढभूमिः ॥ १४ ॥ . बहुकालं नैरन्तयेणाऽऽदरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति दार्ढ्याय प्रभवतीत्यर्थः ॥ १४ ॥ वैराग्यस्य लक्षणमाह- दृष्टानुश्रविकविषयवितृष्णस्य वशी- कारसंज्ञा वैराग्यम् ॥ १५ ॥ द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यम.न: शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदस्तंत आगत आनुश्रविकः । तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्थस्य वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्शस्तद्वैराग्यमित्युच्यते ॥ १५ ।। तस्यैव विशेषमाह- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥ तद्वैराग्यं पर प्रकृष्टं प्रथमं वैराग्यं विषयविषयं द्वितीयं गुणविषयमुत्पन्न गुणपुरुषविवेकख्यातेरेव भवति, निरोधसमाधेरत्यंन्तानुकुलत्वात् ।। १६ ।। १ ख. ग. पाणां चि नवृतीनां यत् तिहननं स निरोधः । किमुक्तं । २ क. न शा। ३ ग. इ-या । ४ क. 'स्तत्त्वेन । ५ क. कालादरनै । ६ क. °न्तर्शदरातिशयो 1 ७ क. 'स्तत्समधिग ! ८ ख, "ततर्षस्य । ९ क. म. 'ग्यमुच्य ।