पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ . भोजदेवविरचितवृत्तिसमेतानि- [समा०पा० १सू०८-११ ] क्तल्लक्षणं कृतम् । प्रमाणलक्षणं तु अविसंवादिज्ञानं प्रमाणमिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाञ्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । संगृहीतसंबन्वाल्लिङ्गालिङ्गिनि सामान्यात्मनाऽध्यवसायोऽनुमानम् । आप्तवचनमागमः ॥ ७ ॥ एवं प्रमाणरूपां वृत्तिं व्याख्याय विपर्ययरूपामाह- विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥ अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रुपप्रतिष्ठमिति । तस्यार्थस्य यद्रुपं तस्मिन्रूपे न प्रतितिष्ठति तस्यार्थस्य यत्पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम् । यथा स्थाणुर्वा पुरुषो वेति ॥ ८॥ विकल्पवृत्तिं व्याख्यातुमाह- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ शब्दजनितं ज्ञानं शब्दज्ञानं, तदनु पतितुं शीलं यस्य स शब्दज्ञानानुपाती । वस्तुनस्तथावमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते । यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवदत्तस्य कम्बल इति शब्दजनिते ज्ञाने पष्ठया योऽध्यवसितो भेदस्तमिहाविद्यमानमपि समारोप्याध्यवसायः । वस्तुतस्तु चैतन्यमेव पुरुषः ॥ ९ ॥ निद्रां व्याख्यातुमाह- अभावप्रत्ययालम्बना वृत्तिर्निद्रा ।। १० ॥ __ अभावप्रत्यय आलम्बनं यस्या वृत्तेः सा तथोक्ता । एतदुक्तं भवति-यो संततमुदिक्त- त्वात्तमसः समस्तविषयपरित्यागेन प्रवर्तते वृत्तिः सा निद्रा । अस्याश्च सुखमहमस्वाप्समितिस्मृतिदर्शनात्स्मृतेश्च,नुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम् ॥ १० ॥ स्मृति व्याख्यातुमाह- अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥ प्रमाणेनानुभूतस्य विषयस्य योऽयमसंप्रमोषः संस्कारद्वारेण बुद्धावुपारोहः सा स्मृतिः। तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्था । त एवं तानुभवबलात्प्रक्षीयमाणाः स्वप्नः । निद्रा तु असंविद्यमानविषया । स्मृतिश्च प्रमाणविपर्ययविकल्पनिद्रानिमित्ता ॥ ११ ॥ क. र प्य पवर्ततेऽध्य । २ ख. ग त्यन्तमु । ३ क. 'दावारो । ४ ग. स । ५ ख. ग °व यदाऽनु' । ६ ग. 'त्यत्मक्षाय । ७ ख. ग. 'णाः स स्व ।