पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=१०६|center=वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि|right=- [ ४ कैवल्पपादे-


क्रमसमाप्तिर्न वेति । अवचनीयमेतत् । कथम् । अस्ति प्रश्न
एकान्तवचनीयः सर्वो जातो मरिष्यतीति । ॐ भो इति ।
 
अथ सर्वो मृत्वा जनिष्यत इति । विभज्यवचनीयमेतत् ।
प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यत इतरस्तु जनि:
प्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपष्टे
विभम्ज्य वचनीयः प्रश्नः पशूनधिकृत्य श्रेयसी देवानृषीश्चाधि-
कृत्य नेति । अयं स्ववचनीयः प्रश्नः संसारोऽयमन्तवानथानन्त
इति । कुशलस्यास्ति संसारक्रमेसमाप्तिर्नेतरस्येति[१] अन्यतरावधा-
रणे दोषः । तस्माद्वयाकऱाणीय एवायं प्रश्न इति ॥ ३३ ॥

नस्याप्यनित्यत्वप्रसङ्गः । न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनाऽऽनन्त्यं स्यात् । तथा सत्य. नादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः । उत्तरमाह- अवचनीयमनुत्तराई. मेतत् । एकान्तत ऐतस्यावचनीयतां[२] दर्शयितुमेकान्तवचनीयं प्रश्नं दर्शयति-अस्ति प्रश्न- इति । सर्वो जातो मरिष्यतीतिप्रश्नोत्तरम्-ॐ भो इति । सत्यं भो इत्यर्थः ।   अविभज्य वचनीयमुक्त्वा पविभज्यवचनीयं प्रश्नमाह-अथ सर्व इति। विभज्य वचनीयतामाह-विभज्येति । विभज्य वचनीयमेव प्रश्नान्तरं विस्पष्टार्थमाह-तथा मनुष्येति । अयं त्ववचनीय एकान्ततः । न हि सामान्येन कुशलाकुशलपुरुषसंसारस्या- न्तवत्त्वमनन्तवत्त्वं वा शक्यमेकान्ततो वक्तुम् । यथा प्राणभ्रुन्मात्रस्य श्रेयस्त्वमश्रेयस्त्वं वा नैकान्ततः शक्यमवधारयितुम् । यथा जातमात्रस्य मरणमेकान्ततः। विभज्य पुनः शक्या- वधारणमित्याह-कुशलस्येति । अयमभिसंधिः-क्रमेण मोक्षे सर्वेषां मोक्षासंसारो- च्छेद इत्यनुमानं, तचाऽऽगमसिद्धमोक्षाश्रयं, तथा चाभ्युपगतमोक्षप्रतिपादकागमप्रमाण- भावः[३] कथं तमेवाऽऽगमं[४] प्रधानविकारनित्यतायामप्रमाणी कुर्यात् । तस्मादागमबाधितवि- षयमेतदनुमानं न प्रमाणम् । श्रूयते हि श्रुतिस्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वमनन्तत्वं चेति । अपि च सर्वेषामेवाऽश्मनां संसारस्य न तावद्युगपदुच्छेदः संभवी । न हि पण्डितरूपाणामप्यनेकजन्मपरम्पराभ्यासपरिश्रमसाध्या विवेकख्यातिप्रतिष्ठा । किं पुनः प्राणभ्रुन्मात्रस्य स्थावरजङ्गमादेरेकदाऽकस्माद्भवितुमर्हति । न च कारणायोगपद्ये कार्ययोगपंद्यं युज्यते । क्रमेण तु विवेकख्यातावसंख्येयानां क्रमेण मुक्तौ न संसारोच्छेदोऽ- नन्तत्वाजन्तूनामसंख्येयत्वादिति सर्वमवदातम् ॥ ३३ ॥

  1. १ क. ख. ब. क. °मपरिस
  2. २ ख. झ. एक त°
  3. ३ न. °ममा
  4. ४ ज. तदेवा- समान। ल्य्