पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०७ सू० ३४] पातञ्जलयोगसूत्राणि । गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तं तत्स्वरूपमवधार्यते- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ . (इति श्रीपतञ्जलिविरचितयोगसूत्रेषु चतुर्थः कैवल्य पादः ॥ ४ ॥) कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मकानां गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे व्यास- भाष्ये कैवल्यपादश्चतुर्थः ॥४॥ कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसंगतिमाह ---गुणाधिकारेति । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कृतकरणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयस्तेषां कार्यकारणात्मैकानां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मर्नेसि लीयन्ते मनोऽस्मितायामस्मिता लिङ्गे लिङ्गमलिङ्ग इति । योऽयं गुणानां कार्यकारणात्मकानां प्रतिसर्गस्तत्कैवल्यम् । यं कंचित्पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा वा पुरुषस्य॑ मोक्ष इत्याह—स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूपप्रतिष्ठा चितिशक्तिः । न चासौ मोक्ष इत्यत आह- पुनरिति । सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ ॥ ३४ ॥ मुक्त्यर्ह चित्तं परलोकमेयज्ञसिद्धये धर्मधनः समाधिः । द्वयी च मुक्तिः प्रतिपादिताऽस्मिन्पादे प्रसङ्गादपि चान्यदुक्तम् ॥ १॥ निदानं तापानामुदितमथ तापाश्च कथिताः सहाङ्गैरष्टाभिर्विहितमिह योगद्वयमपि ॥ कृतो मुक्तेरध्वा गुणपुरुषभेदः स्फुटतरो विविक्तं कैवल्यं परिगलिततापा चितिरसौ ॥ २॥ ' इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां कैवल्यपादश्चतुर्थः ॥ ४॥ समाप्तमिदं पातञ्जलयोगदर्शनं सटीकभाष्ययुतम् ।। क. ख. च. ज. °मपरिस १२ ग.घ. ङ. च. ज. त्मना ! ३ क. ख. झ. त्मना। ४ क. सि प्रली ! ५ स. स. 'ठा पु। ६ व. स. "स्य वा मो १७ ख. स. द्धयो ध।