पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. ३३] पातञ्जलयोगसूत्राणि । २ मुभूतक्रमक्षणा पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थानित्यता पुरुषस्य । परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानाभघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति नित्येषु चेति । बहुवचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते । तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति-द्वयीति । ननु कूटस्थं स्वभावादपच्युतमस्तु नित्यं परिणामि सदैव स्वरूपाच्च्यवमानं कथं नित्यमित्यत आह-- यस्मिन्निति । धर्मलक्षणावस्थानामुदयव्ययधर्मत्वं धर्मिणस्तु तत्त्वादविघात एवेति । अथ किं परिणामापरान्तनिर्ग्राह्यता सर्वत्र क्रमस्य नेत्याह-तत्र गुणधर्मेषु बुद्धयादिष्विति । यतो लब्धपर्यवसाना धर्माणां विनाशाप्रधानस्य तु परिणामक्रमो न लब्धपर्यवसानः । ननु प्रधानस्य धर्मरूपेण परिणामादस्तु परिणामक्रमः । पुरुषस्य त्वपरिणामिनः कुतः परिणामक्रम इत्यत भाह --- कूटस्थेति । तत्र बद्धानां चित्ताव्यतिरेकाभिमानात्तत्परिणामेन परिणामाभ्यासः । मुक्तानां चास्तिक्रियामुपादायावास्तवोऽपि परिणामो मोहकल्पितः शब्दस्य पुरःसरतया तापृष्ठो विकल्पोऽस्तिक्रियामुपादत्त इति । गुणेष्वलब्धपर्यवसानः परिणामक्रम इत्युक्तम् । तदसहमानः पृच्छति-अथेति । स्थित्येति महाप्रलयावस्थायाम् | गत्येति सृष्टौ । एतदुक्तं भवति-यद्यानन्त्यान्न परिणामसमाप्तिः संसारस्य हन्त भोः कथं महाप्रलयसमये सर्वेषामात्मनां सहसा समुच्छिद्येत कथं च सृष्टयादौ सहसोत्पद्येत संसारः । तस्मादेकैकस्याऽऽत्मनो मुक्तिक्रमेण सर्वेषां विमोक्षादुच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः । एवं च प्रधा. १. ख. मानवपु 11. 'णा नवस्य पु । २ ख. प. क. णामनि । ३ . प. क. 'णामनि । ५ क. च. °णममा ११क. 'त्यं याद । ६ क.झ, 'पक | ७. मानं । ८ स्ख, ज. झ. यथाऽन।