पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४५ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- . कैवल्यपादे- " अन्धो मणिमविध्यत्तमनङ्गुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोऽभ्यपूजयत्" इति ॥ ३१ ॥ ततः कृतार्थानां परिणामक- मसमाप्तिर्गुणानाम् ।। ३२॥ तस्य धर्ममेघस्योदयात्कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गाः परिसमाप्तक्रमाः क्षणम्प्यवस्थातुमुत्सहन्ते ॥ ३२ ॥ अथ कोऽयं क्रमो नायेति- क्षणप्रतियोगी परिणामापरान्त- निर्ग्राह्यः क्रमः ॥ ३३ ॥ क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः। न छन- ध्यदन्धो मणिमिति । आवयद्ग्रथितवान् । प्रत्यमुञ्चपिनद्धवानभ्यपूजयस्तुतवानिति ॥३१॥ ननु धर्ममेघस्य परा काष्ठा ज्ञानप्रसादमात्रं परं वैराग्यं समूलघातमपहन्तु व्युत्थानसमाघिसंस्कारान्सक्लेशकर्माशयान्गुणास्तु स्वत एव विकारकरणशीला: कस्मात्तादृशमपि पुरुषं प्रति देहेन्द्रियादीनाऽऽरभन्त इत्यत आह-ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । शीलमिदं गुणानां यदमी यं प्रति कृतार्थास्तं प्रति न प्रवर्तन्त इति भावः ॥ ३२॥ अत्रान्तरे परिणामक्रमं पृच्छति-अथ कोऽयमिति । क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः । परिणामक्रमः क्षणप्रतियोगी क्षणः प्रतिसबन्धी यस्य स तथोक्तः। क्षणप्रचयाश्रय इत्यर्थः । न जातु क्रमः क्रमवन्तमन्तरेण शक्यो निरूपयितुम् । न चैकस्यैव क्षणस्य क्रमः । तस्मात्क्षणप्रचयाश्रयः परिशिष्यते । तदिदमाह-क्षणानन्तर्येति । परिणामक्रमे प्रमाणमाह--परिणामस्येति । नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते । सोऽयं परिणामस्यापरान्तः पर्यवसानं, तेन हि परिणामस्य क्रमः । ततः प्रागपि पुराणतायाः सूक्ष्मसूक्ष्मतरसूक्ष्मतमस्थूलस्थलतरस्थूलतमत्वादीनां पौर्वापर्यमनुमीयते । एतदेव व्यतिरेकमुखेन(ण) दर्शयति-न हीति । अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता । नन्वेष क्रमः प्रधानस्य न संभवति तस्य नित्यत्वादित्यत आह- १ स. क. 'रान्छेश । २ क. 'क्रमक' १. ३ स. अ. °चय आश्र । . .