पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{left=सू० ३१]|center=पातञ्जलयोगसूत्राणि ।|right=२०३}}

जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात्, यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः[१] कश्चित्केनचित्कचिज्जातो दृश्यत इति ॥ ३०॥

तदा सर्दावरणमलापेतस्य ज्ञान- स्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१॥

सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति । आवरकेण तमसाऽभिभूतमादृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति । तत्र यदा सर्वैरावरणमलै- रपगतं[२] भवति तदा भवत्यस्याऽऽनन्त्यम् । झानस्याऽऽनन्त्या- ज्ज्ञेयमल्पं संपद्यते । यथाऽऽकाशे खद्योतः । यत्रेदमुक्तम्-

विमुक्तो भवति । उत्तरं यस्मादिति ।[३] केशकर्मवासनेद्धः किल कर्माशयो जात्या- दिनिदानम् । न चासति निदाने निदानी भवितुमर्हति । यथाऽऽहात्र भगवानक्षपादः- वीतरागजन्मादर्शनात् । [गौ० सू०३ । १ । २५] इति ॥ ३०॥

 अथैवं धर्ममेधे सति कीदृशं चित्तमित्यत आह- तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ञयमल्पम् । आव्रियते चित्तसत्त्वमेभिरित्यावरणानि मला: क्लेश- कर्माणि सर्वे च त आवरणमलाश्चेति सर्वावरणमलास्तेभ्योऽपेतस्य चित्तसत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्यनया व्युत्पत्त्याऽऽनन्त्यादपरिमेयत्वाज्ज्ञेयमल्पम् । यथा हि शरदि धनपटलमु. कस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात्प्रकाश्या घटादयोऽस्माः प्रकाशन्ते, एवमपगतरजस्तमसश्चित्तसत्त्वस्य प्रकाशानन्त्यादयं प्रकाश्यामिति । तदेतदाह-सर्वेरिति । एतदेव व्यतिरेकमुखेन (ण) स्फोरयति--आवरकेण तमसाऽभिभूतमिति । क्रियाशी- लेन रजसा प्रवर्तितमत एवोद्घाटितं प्रदेशादपनीतं तम इत्यर्थः । अत एव सर्वान्धर्मा- झेयान्मेहति. वर्षति प्रकाशनेनेति धर्ममेध इत्युच्यते । नन्वयमस्तु धर्ममेधः समाधिः सवा- सनक्लेशकर्माशयप्रशमहेतुः । अथ सत्यप्यस्मिन्कस्मान्न जायते पुनर्जन्तुरित्यत आह-यत्रे- दमुक्तमिति । कारणसमच्छेदादपि चेत्कार्य क्रियते हन्त भो मणिवेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपनार्थतायामामाणको लौकिक उपपन्नार्थः स्यात्--अवि- करमा त्युनः क्षीणाविपर्पयो मुक्तो न पुनर्जनिष्ट ते । उत्तरं परम दिसि । क्लें। .

  1. क. च. णक्लेशवि ।
  2. म. घ. इ. ज. °गतमल भ ।
  3. ख. ज. ति ।