पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ ... वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [५ कैवल्यपाद- यथा क्लेशा दग्धबीजभावां न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ प्रसंख्यानेऽपकुसीदस्य सर्वथा विवे. कख्यातेधर्ममेघः समाधिः ॥ २९ ॥ यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदस्ततोऽपि न किंचित्प्रार्थयते । तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य धर्म- मेघो नाम समाधिर्भवति ॥ २९॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ : तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ वते न तु परिपक्वविवेकज्ञानस्य क्षीणाः प्रत्ययान्तराणि प्रसोतुमर्हन्ति । यथा विवेकाच्छिद्रसमुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते तत्कस्य हेतोस्तदेते क्लेशा विवेकज्ञानवह्निदग्धबीजभावा इति । एवं व्युत्थानसंस्कारा अपीति । अथ व्युत्थानसंस्कारा विवेकज्ञानसंस्कारैर्निरोद्धव्या विवेकसंस्काराश्च निरोधसंस्कारैनिधिसंस्काराणां त्वबाह्यविषयत्वं दर्शितं निरोधोपायः प्रायश्चिन्तनीय इत्यत आह-ज्ञानसंस्कारास्त्विति । परवैराग्यसंस्कारा इत्यर्थः ॥ २८ ॥ तदेवं सूत्रकारो व्युत्थाननिरोधोपायं प्रसंख्यानमुक्त्वा प्रसंख्याननिरोधोपायमाह- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः । ततः प्रसंख्यानान्न किंञ्चित्सर्वभावाधिष्ठतृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति परिणामित्वदोषदर्शनेन विरक्तः सर्वथा विवेकख्यातिरेव भवति । एतदेव विवृणोति-तत्रापीति । यदा व्युत्थानप्रत्यया भवेयुस्तदा नायं ब्राह्मणः सर्वथा विवेकख्यातियतस्तस्य न प्रत्ययान्तराणि भवन्ति ततः सर्वथा विवेकख्यातिरिति । तदाऽस्य धर्ममेधः समाधिर्भवति । एतदुक्तं भवति- प्रसंख्यांने विरक्तस्तन्निरोधमिच्छन्धर्ममेधं समाधिमुपासीत । तदुपासने च सर्वथा विवेकख्यातिर्भवति । तथा च तं निरोद्धुं पारयतीति ॥ २२ ॥ तस्य च प्रयोजनमाह---ततः क्लेशकर्मनिवृत्तिः । कस्मात्पुनर्जीवन्नेव विद्वा- १ क. ख. च. चिन्त्यते । २ ख. °व मु° । ज, झ. व विमु' ।