एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २६-२८]
२०१
पातञ्जलयोगसूत्राणि ।
तु विशेषदार्शनो निवर्तते । कुतः । चिसस्यैवैष विचित्रः परि.
णामः, पुरुषस्त्वसत्यमिविद्यायां शुद्धश्चित्तधर्मेरपरामृष्ट इति ।
नतोऽस्याऽऽस्मभावभावना कुशलस्य[१] निवर्तत इति ॥ २५ ॥
तदा पिवकनिम्नं कैवल्य-
प्रारभारं चित्तम् ॥२६॥
तदानीं यदस्य चित्तं विषयप्राग्भारमज्ञाननिन्नमासीलदस्या-
पया भवति कैवल्यमाग्भारं विवेक[२]जज्ञाननिम्नमिति ॥ २६ ॥
तच्छिद्देषु प्रत्ययान्तराणि
संस्कारेण्यः[३]॥ २७ ॥
प्रत्ययविवेकनिम्नस्य सत्त्वपुरुषान्यताख्यातिमात्रमा[४] हिण-
श्चित्तस्य तच्छिंद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति था जाना-
मीति वा न जानामीति वा । कुतः, क्षीयमाणवीजेभ्यः पूर्वसं-
स्कारेभ्य इति ॥ २७ ॥
हानमेषां क्रुशवदुक्तम् ॥ २८ ॥
आत्मभावभावना प्राग्व्याख्याता । विशेषदर्शिन: परामर्शमाह-चित्तस्यैवेति । त. (अ)स्य विशेषदर्शनकुशलस्याऽऽरममावभावनों[५] निवर्तत इति ॥ २५ ॥ मथ विशेषदर्शिनः कीदृशं चितमित्यत आह-तदा विवेकनिम्न कैवल्यप्राग्भारं चित्तम् । निगदव्याख्यातम् ॥ २६॥ स्यादेतद्विशेषदर्शनं चेद्विवेकनिष्ठं, न जातु चित्तं व्युस्थितं स्यात् । दृश्यते चास्य भिक्षामठतो व्युत्थितमित्यत आह-तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । प्रत्ययेति । प्रतीयते येन से प्रत्ययश्चित्तसत्वं तस्माद्विवेकश्चितः । तेन निम्नस्य जाना- मीति साक्षा[६] मोक्षो विविच्य दैर्शितो. न जानामीति मोहस्तन्मूलावहंकारममकारावह- मस्मीति वा ममेति वा द[७]र्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः । पूर्वसंस्कारेभ्यो व्युत्थानसंस्कारेभ्यः ॥ २७॥ स्यादेतत्सत्यपि विवेकविज्ञाने व्युत्यानसंस्कारा यदि पत्ययान्तराणि , प्रमुवते कस्तहि हानहेतुरेतेषां यतः प्रत्ययान्तराणि म पुनः प्रसुवीरनियत आह-हानभेषां क्लेशवदुक्तम् । अपरिपकविवेकज्ञानस्याक्षीयमाणा व्युत्थानसंस्काराः प्रत्ययान्तरं प्रसु.