पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[४ कैवल्यपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


नार्थवान्पुरुषः स एव परो न परः सामान्यमात्रम् । यत्तु किंचित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारि- त्वात्परार्थमेव स्यात् । यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥ २४॥

विशेषदर्शिन आत्मभाव.
भावनानिवृत्तिः ॥२५॥

यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्याऽऽत्मभावभावना स्वाभाविकी प्रवर्तते । यस्याभावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति । तत्राऽऽत्मभावभावना कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्याम इति । सा

मपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात्स्वात्मनि च वृत्तिविरोधान्न ज्ञानार्थत्वम् । ने बाह्यविषयादस्मादपवर्गसंभवो विदेहप्रकृतिलयानामपवर्गासंभवात् । तस्मात्तज्ज्ञानमपि पुरुषार्थमेव न तत्स्वार्थं नापि परमात्रार्थम् । संहतपरार्थत्वे चानवस्थाप्रसङ्गादसंहतपरार्थ. सिद्धिरिति ॥ २४ ॥

 तदेवं कैवल्यमूलबीजं युक्तिमयमात्मदर्शनमुक्त्वा तदुपदेशाधिकृतं पुरुषमनधिकृतपुरुषा. न्तराद्वयावृत्तमाह--विशेषदर्शिन आत्मभावभावनानिवृत्तिः । यस्याऽऽऽत्मभावे भावनाऽस्ति तस्याष्टाङ्गयोगोपदेशादनुतिष्ठतो युञ्जानस्य तत्परिपाकच्चित्तसत्वपुरुषयोर्विशेषदर्श नादात्मभावभावना निवर्तते । यस्याऽऽत्मभावभावनैव नास्ति नास्तिकस्य तस्योपदेशान- धिकृतस्यापारनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेषदर्शनं नाऽऽत्मभावभावनानिवृत्तिरिति सूत्रार्थः । नन्वात्मभावभावनायाश्चित्तवर्तिन्याः कुतोऽवगम इत्यत आह--यथा प्रावृषीति । प्राग्भवीयं तत्त्वदर्शनबीजमपवर्गभागीयं यत्कर्माष्टाङ्गयोगानुष्ठानं तदेकदेशानुष्ठानं वा तदभिनिवर्तितमस्तीत्यनुमीयते । तस्य चाऽऽत्मभावभावनाऽवश्यमेव स्वाभाविकी वस्त्वभ्यासं विनाऽपि प्रवर्तते । अनधिकारिणमागमिनां वचनेन दर्शयति-यस्याभावादिदमिति । पूर्वपक्षी नास्ति कर्मफलं परलोकिनोऽभावात्परलोकाभाव इति, तत्र रुचिररुचिश्च निर्णये पञ्चविंशतितत्वविषये । [१]

  1. ५ ग. च. ज. नाविनि । २ स. झ. न चान्यषि' । ३ ज. नाविन ।